SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥४०॥ ACCORRECrs __“जह सरणमुवगयाणं जीवाण निकितई सिरे जो उ । एवं आयरिओऽवि हु उस्सुत्तं पन्नवितो अ॥१॥” इति । द्वितीयः न तपो न जपो नापि ज्ञानं नापि च सक्रिया । सफलं तस्य सिद्धान्तमापयति योऽन्यथा ॥ ६९८ ॥ श्रूयते सक्रि प्रकाशा याज्ञानसंपन्नोऽप्यन्यथार्हतम् । व्याकुर्वनेकमप्युक्तं जमालिः प्राप दुर्गतिम् ॥ ६९९ ॥ मिथ्यार्थापयतामन्यदपि स्यान्नरका-17 दिका । दुर्गतिः किं पुनर्जेनं वचनं विश्वपावनम् ॥ ७००॥ है| वसुपर्वतकाख्यानमस्मिन्नर्थे निशम्यताम् । अस्ति शुक्तिमती नाम नगरी श्रीगरीयसी ॥७०१॥ अभूत्तस्यां नमस्यांहिभक्तिप्रबनरेश्वरैः । निस्तन्द्रः समरे श्रीमानभिचन्द्रमहीपतिः ॥७०२ ॥ अजायत कुमारोऽस्य वसुनामा महामतिः।। शैशवादपि यः सत्यवादसादरतां दधौ ॥७०३ ॥ ख्यातः क्षीरकदम्बाख्यः सर्वविद्यावदातधीः । उपाध्यायोऽभवत्तत्र पुत्रपर्वतकान्वितः॥ ७०४ ॥ वसुः पर्वतकश्चान्यो नारदश्च त्रयोऽप्यमी। सोत्कण्ठमुपकण्ठेऽस्याऽपठन्नशठमानसाः॥७०५॥ सौधमूर्द्धन्यधीयाना जाग्रत्येवान्यदा गुरौ । अन्वभूवन्नमी पाठश्रान्ता निद्रासुखं क्षणम् ॥ ७०६ ॥ तदा च वीक्ष्य तान् भिन्नगतीनेकगुरूनपि । चारणश्रमणौ व्योम्नि यान्तावन्योऽन्यमूचतुः॥७०७॥ एषामेकतमः स्वर्गमपरौ नरकं पुनः । गमिष्यन्ति गतिर्भिन्ना जन्मिनां हि स्वकर्मतः ॥ ७०८॥ तत् श्रुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः। मयाऽप्यध्यापिती शिष्यौ हा हा निरयमेष्यतः॥ ७०९ ॥ अमीषां कतमः स्वर्ग कतमौ नरकं पुनः । यास्यन्तीति स जिज्ञासुराहत्रीनपि तान् समम् ॥ ७१० ॥ पिष्टकुक्कुटमेकैकं समप्यैषां गुरुर्जगौ । अमी तत्र निहन्तव्या यत्र कोऽपि न पश्यति ॥ ७११॥ वसुपर्वतको तत्र गत्वा विजनदेशयोः। तौ कुक्कुटावहिंसिष्टां विशिष्टां तु गतिं निजाम् ॥ ७१२॥ पुराहरतरं ॥४०॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy