SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 95- कि सुधीः । न कदाचिदातमच्यते । पुरे राजा प्रत्यावृत्तेन तनाथ महावीर वृत्तान्तं खेच A ४ाधिकं सुधीः। न कदाचिदधीयीत स्पृहयालुः शुभाय यः॥ ६८३ ॥ । अथ वर्णादिहीनत्वे विद्याभृज्ज्ञातमुच्यते । पुरे राजगृहेऽन्येद्युः श्रीवीरः समवासरत् ॥ ६८४ ॥ नमश्चक्रे महीशक्रः श्रेणिकस्तं प्रमोदतः । उत्कर्णश्च तदभ्यर्णे पुण्यमाकर्ण्य पिप्रिये ॥ ६८५ ॥ प्रत्यावृत्तेन तेनाथ पथि कश्चन खेचरः। उत्प-| तन्निपतन् प्रैक्षि क्षतपक्षतिपक्षिवत् ॥ ६८६ ॥ ततश्चित्रीयितश्चित्ते पश्चादेत्य महीपतिः। पप्रच्छ श्रीमहावीरं वृत्तान्तं खेचरस्य तम् ॥ ६८७॥ जगाद जगदीशोऽपि प्रमादादेष खेचरः। विद्याया व्योमगामिन्या व्यस्मार्षीदेकमक्षरम् ॥ ६८८॥ ततोऽयमस्फुरद्विद्यस्ताम्यत्युत्पिपतीदिवि । विद्या हि किश्चिदप्यूना न संपूर्णफलप्रदा ॥ ६८९॥ तदाकोभयो मन्त्री गत्वा प्रोवाच खेचरम् । विद्यां चेद्ददसे तत्तै वच्मि विस्मृतमक्षरम् ॥ ६९०॥ ओमित्युक्त्वा पुरस्तस्य विद्यां विद्याधरोडपठत् । पदानुसारिधीस्तस्य धीसखोऽप्याख्यदक्षरम् ॥ ६९१ ॥ स्फुरन्त्यामथ विद्यायां मुदितः सचिवाय सः । अदत्त विधिपूर्व तां दिवि च स्वयमुद्ययौ ॥ ६९२ ॥ हीनकेनापि वर्णेन विद्या नास्यास्फुरद्यथा । तथा श्रुतमपि न्यूनं वर्णाद्यैर्नेष्टसिद्धिदम् ॥ ६९३ ॥ अतो वर्णादिभिः शुद्धमध्येयं धीधनैः श्रुतम् । यतो भैषज्यवत्पथ्यमहीनाधिकमेव | तत् ॥ ६९४ ॥ व्यञ्जनम् ॥ ६॥ म यथार्थमेव मेधावी व्याकुति श्रुतं तथा । यतस्तस्यान्यथाव्याख्या स्यादसंख्यातदुःखदा ॥ ६९५ ॥ व्याख्यानय न्मृषाऽनन्तं भवावर्ते न केवलम् । स्वमेव नयते किन्तु सर्वामप्यात्मसन्ततिम् ॥ ६९६ ॥ दृश्यन्ते साम्प्रतं पूर्वैश्चिरातीतैः ४ प्रवर्तिताः। स्वान्यशासनगानानाः कुमार्गा दुर्गतिप्रदाः ॥ ६९७ ॥ तदुक्तमुपदेशमालायाम् A-SAGAR
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy