SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 1 | विधत्ते वसतिं स्वस्य सद्यः सिद्धिपदे हि सः ॥ ३४९ ॥ गुरुभ्यो वसतिं दत्त्वा तीर्यते भववारिधेः । न परं सुधिया स्वात्मा श्रीसङ्घोऽपि चतुर्विधः ॥ ३४२ ॥ श्लाघास्तु हस्तिपालस्य श्रीवीरस्थापनेन यः । शुल्कशाले चतुर्मासीं पुण्यसत्रमसूत्रयत् ॥ ३४३ ॥ अहं च राज्यवैयग्र्यादुद्याने वन्दितुं गुरून् । न शक्तः सततं गन्तुं समस्तोऽपि जनस्तथा ॥ ३४४ ॥ तदुद्यानादिहाकार्य निवेश्य स्वगृहे गुरुम् । धर्म शृणोमि सेवे च कुर्वे च सफलं जनुः ॥ ३४५ ॥ ध्यात्वेति जनलक्षेषु दक्षेष्वपि नृपः स्वयम् । ययौ तत्र तमाह्वातुमहो ! तस्य विवेकिता ॥ ३४६ ॥ अतुच्छैरुत्सवस्तोमैर्निरवद्ये स्वसद्मनि । | स्थापयामास भूमीन्द्रः कल्पद्रुमिव तं गुरुम् ॥ ३४७ ॥ अथासौ सर्वसामन्तपौरादिपरिवारितः । शुश्राव सर्वदा तस्य | सादरं धर्मदेशनाम् ॥ ३४८ ॥ तदीयदेशना दीपदलितान्तरतामसाः । प्रपेदिरे जनाः सम्यग्धर्ममार्गमभङ्गरम् ॥ ३४९ ॥ | तथाहि - त्यक्त्वा मिथ्यात्वमत्युग्रं प्रत्यपद्यन्त केचन । सम्यक्त्वं मुक्तिकान्तायाः सङ्केतमिव निश्चितम् ॥ ३५० ॥ स्वर्गसौधाधिरोहाय सोपानानीव केचन । स्वीचक्रुर्द्वादश श्राद्धव्रतानि विधिवज्जनाः ॥ ३५१ ॥ प्राज्यसंपदमुत्सृज्य चङ्गसंवेगरङ्गतः । मुदा श्रामण्यसाम्राज्यमुपायंसत केचन ॥ ३५२ || सामायिकजिनाचदिनियमानमितान् मुदा । भेजुः स्वर्गा| पवर्गश्रीसत्यङ्कारानिवापरे ॥ ३५३ ॥ इत्यपारेषु पौरेषु नानापुण्यपरेष्वपि । कुरुचन्द्रस्तु नो धर्म प्रपेदे गुरुकर्मकः ॥ ३५४ ॥ यतः - "जगती नयनानन्दसंपादनपरायणा । चन्द्रिका नहि चौराय रोचते रुचिराऽप्यहो ! ॥ १ ॥ " तारचन्द्रनरेन्द्रस्य दाक्षिण्यादेव सेवकः । वन्दनाभिगमादीनि स गुरोरकरोत्पुनः || ३५५ ॥ दृष्ट्वा पुण्यपरान् पौरान् धर्मारोचकिनं पुनः । कुरुचन्द्रं महीचन्द्रो जहर्ष विषसाद च ॥ ३५६ ॥ दध्यौ च वसुधाधीशः शृण्वन्नपि मया समम् ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy