________________
दानप्रदीपे
॥ ७१ ॥
धुरि स्थिताम् । गौरवाय गुणा एव न तूत्तमकुलादिकम् ॥ ३२६ ॥ अक्कां धिक्कारयामास हारचौर्यकलङ्कदाम् । तस्याश्च नासिकाकर्णविनाशायादिशन्नृपः ॥ ३२७ ॥ यतः —
“वधबन्धच्छिदाद्यं हि प्ररूढः पापपादपः । इह लोके फलं दत्ते परलोके तु दुर्गतीः ॥ १ ॥”
राज्ञ मदनमञ्जूषा मोचयामास तां नृपात् । सतां कृपा हि सर्वत्र समाना घनवृष्टिवत् ॥ ३२८ ॥ जवादानाय्य तं हारं नृपस्तस्यै मुदाऽर्पयत् । पत्यौ प्रीतिः परा स्त्रीणां यतः कल्पलतायते ॥ ३२९ ॥ तत्रान्यदा पुरोद्याने गुणसागरसूरयः । मुनीन्द्राः समवासार्षुरशेषागमवेदिनः ॥ ३३० ॥ उद्यानपालकेनाथ गुरोरागमने नृपः । विज्ञप्ते पिप्रियेऽतीव के | कीव जलदागमे ॥ ३३१ ॥ विनोष्णीषं ददौ तस्मै सर्वाङ्गालङ्कृतीर्नृपः । अहो ! भाग्यवतां भक्तिर्गुरौ काऽप्यतिशायिनी ॥ ३३२ ॥ ततः समस्तसामन्तमन्त्र्यादिपरिवारितः । वन्दितुं गुरुमुद्यानमासदन्मेदिनीपतिः ॥ ३३३ ॥ प्रणम्य विधिना सूरिं निषण्णेषु नृपादिषु । गुरुश्चकार दुष्कर्मनाशिनीं पुण्यदेशनाम् ॥ ३३४ ॥ तां निपीय नृपः प्रीतश्ञ्चकोर इव चन्द्रकाम् । सपौरः प्रगुणीभूतधर्मरङ्गो गृहानगात् ॥ ३३५ ॥ कृतस्नानजिनेन्द्रार्चा भोजनादिविधिर्नृपः । आसने सुखमासीनो हृदि दध्यौ विशुद्धधीः ॥ ३३६ ॥ धन्यास्ते कृतपुण्यास्ते तेषां च सफलं जनुः । श्रीगुरूणां गिरो नित्यं कणेहत्य पिबन्ति | ये ॥ ३३७ ॥ धन्येभ्योऽपि च ते धन्याः कुर्वते विधिपूर्वकम् । सर्वदा पुण्यकृत्यं ये गुरूणामुपदेशतः ॥ ३३८ ॥ अस्माकं तु सदा राज्यशृङ्खलास्खलितात्मनाम् । आयान्ति यान्ति दिवसाः पशूनामिव निष्फलाः ॥ ३३९ ॥ गुरुन्निवेश्य स्वावासे तदुपास्यापरायणः । तदुक्तविधिना धर्म भाग्यवानेव सेवते ॥ ३४० ॥ वसतिं यतिराजाय स्वच्छधीर्यः प्रच्छति ।
चतुर्थः
प्रकाशः ।
॥ ७१ ॥