________________
दानप्रदीपे
॥७२॥
धर्म प्रत्यहमेवैष प्रत्यबुध्यत नाल्पधीः ॥ ३५७ ॥ अस्यातिकुशलस्यापि कलासु सकलास्वपि । अभून्न कौशलं धर्मे ही प्रकाशः। विपाकः कुकर्मणः॥ ३५८ ॥ अस्मै धिगस्तु विश्वान्धंकरणाय कुकर्मणे । सर्वोपकारपारीणे श्रीधर्मेऽप्यरुचिर्यतः॥३५९॥ अयं मन्त्री मया मैत्रीमाश्रितः शैशवादपि । महामात्यपदं चास्मै मैत्र्यादेव ददे मया ॥ ३६०॥ परं यावदमुं धर्मकर्मठं निर्मिमे नहि । सुहृदस्तावदेतस्य किं नामोपकृतं मया ॥ ३६१ ॥ यतः
"उपकारो ह्यनल्पोऽपि प्रयाति व्ययमैहिकः । स्वल्पोऽप्यनल्पतामेति स पुनः पारलौकिकः॥१॥" मुनीनामयमाचारं निरतीचारमन्वहम् । प्रत्यक्षं वीक्षमाणः सन् कदाचित् प्रतिबुध्यते ॥ ३६२ ॥ तदस्यैव गृहे युक्त गुरूणां स्थापनं मम । विचिन्त्येति नृपश्चित्ते प्रोवाच सचिवं प्रति ॥ ३६३ ॥ अपारकार्यप्राग्भारव्यापारव्यग्रताऽस्ति ते । गुरूणामन्तिके गन्तुं पर्याप्तिस्तव नो ततः॥ ३६४ ॥ तस्माद्वेश्मनि मन्त्रीश ! स्वस्मिन्नेव मुनीश्वरान् । निधेहि सविधे । चैषां धर्म शृणु यथाविधि ॥ ३६५ ॥ धर्म एव यतः सेतुरपारभववारिधौ । केतुः सर्वापदां हेतुः समस्तसुखसंपदाम् ॥ ३६६ ॥ धनस्वजनदेहाद्यमपि पुण्यविनाकृतम् । दुरन्तदुर्गतौ पातनिमित्तं हि तनूमताम् ॥ ३६७ ॥ इत्यादिष्टे नरेन्द्रेण तदादेशवशंवदः । गुरूनिमानमात्येशो निजावासे न्यवीविशत् ॥ ३६८ ॥ धर्म चाकर्णयामास तदभ्यर्णे दिने | दिने । राज्ञो दाक्षिण्यतः पुंसां गुणस्तदपि न ह्यणुः॥३६९ ॥ सरसैरुपदेशैश्च तेषामेष विसिष्मिये । शर्करा किमु न स्वादुःप्रसह्याप्याहिता मुखे ॥ ३७० ॥ दशै दर्श क्रियास्तेषामशेषा अप्यदूषणाः । अमी जितेन्द्रियाः शान्ताः सम्यगाचारचारवः ॥ ३७१॥ अहो ! सदाऽपि निःसङ्गाः संवेगामृतसागराः । स्वाध्यायध्याननिष्णाता यथोक्तविधिकारिणः ॥३७२॥
॥७२॥