________________
तदस्मिन् राज्यमायोज्य युज्यते मम संयमः॥५४६॥ धन्यास्त एव राजानो यैरवीक्ष्य जरामुखम् । रजोवद्राज्यमुत्सृज्य संयमैश्वर्यमाददे ॥ ५४७ ॥ निःसन्देहमयं देहस्तेषामेव फलेग्रहिः। साहाय्येनास्य यैस्तेपे महोदयफलं तपः॥५४८॥ एवं वैराग्यभङ्गीभिरुत्तरङ्गीभवन्नयम् । जामात्रे रत्नपालाय निजं राज्यमदान्मुदा ॥ ५४९॥ स्वयं तु श्रीगुरोः पार्थे तप-16
स्यामयमाददे । सुदुस्तपं तपस्तत्वा परमां गतिमाप च ॥ ५५० ॥ रत्नपालनृपः पुण्यार्जितं राज्यं प्रपालयन् । कियन्तं समयं । सातत्र तस्थौ कान्ताद्वयान्वितः॥५५१॥तत्र राज्ये नियुज्याथ मत्रिणं जगतीपतिः। अलञ्चके स्वसाम्राज्यं स्वाराज्यमिव वासवः। M५५२॥ शृङ्गारसुन्दरी १रत्नवती २ सा पत्रवलिका ३।मोहवल्ली च ४ सौभाग्यमञ्जरी ५ देवसेनिका ६॥५५३॥ गन्धर्वसेना
७ कनकमञ्जरी ८ गुणमञ्जरी ९॥ इति नान्यः क्रमादस्य भार्या नव विरेजिरे॥५५४॥नवभ्यः क्षितिखण्डेभ्यः सारान सारानिव ध्रुवम् । सौन्दर्याणूनुपादाय विहितास्ताश्चकाशिरे ॥ ५५५ ॥ त्रिंशती ग्रामकोटीनां पुरां सहस्राविंशतेः। प्रत्येक द्वीपदुर्गाणामयुतस्य १०००० च स प्रभुः॥ ५५६ ॥ त्रिंशतो राट्रसहस्राणामयुतस्य किरीटिनाम् । वेलाकूलसहस्राणं द्वादशानां स नायकः ॥ ५५७ ॥ स चत्वारिंशतः पत्तिकोटीना रथवाजिनाम् । लक्षाणां तावतां नेता त्रिंशल्लक्ष्याश्च हस्तिनाम् ॥५५८॥ स पञ्चानां पयोदुर्गसहस्राणामधीशिता । विद्याधरसहस्रेण सिषेवे च दिवानिशम् ॥ ५५९॥ सम्यग् वर्णयितुं तस्य प्राभवं कः प्रगल्भते । यस्याह्नि दानभोगादौ स्वर्णकोटीशतव्ययः॥ ५६० ॥ तस्य सीमातिगः पुण्यमहिमा केन मीयताम् । जायते । प्रत्यहं तावत् स्वर्ण यस्य रसात्ततः॥ ५६१ ॥ प्रत्यक्ष इव पीयूषयूषे तस्मिन् रसोत्तमे । कस्यापि तस्य साम्राज्ये न बाधा व्याधयो व्यधुः॥ ५६२॥ पूरके सर्वेकामानां तस्मिन् कल्पतराविव । दारिद्रयं नोपदुद्राव जनान युगलिनो यथा ॥५६॥
RRORE