SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ S दानप्रदीपे ॥१२९॥ ॥५२८ ॥ स चोलापयिता कन्ये इत्युक्त्वा सा तिरोऽभवत् । नृपादयस्तदाकर्ण्य सर्वे मुमुदिरेतराम् ॥ ५२९ ॥ देव्याः अष्टमः साहाय्यतो देव! बभूवात्र तवागमः। इतस्तव पुरं पञ्चयोजनानां शतानि हि ॥५३०॥ नृपादेशादहं देव! त्वामभ्यागममग्रतः। प्रकाशः। सोऽपि भूरिपरीवारो देव्यादेशादुपैत्ययम् ॥ ५३१॥ इतश्चामात्यसामन्तपत्त्यादिपरिवारितः । रत्नसेननृपस्तूर्यगर्जदम्ब asty रमाययौ ॥ ५३२ ॥ रत्नपालनृपं दृष्ट्वा हृष्टः स्नेहान्ननाम सः। प्रावीविशत् पुरान्तश्च विस्मापितजनैर्महैः ॥५३३॥ सम्मान्याशनपानाद्यैस्तमभ्यर्थयते स्म सः। कन्ये प्रगुणय स्वामिन् ! देव्यादेशो हि नस्तथा ॥५३४॥रसेनाथ महीनाथः स्वाङ्गदस्थेन तेन सः भालं तिलकयामास कुष्ठदुष्टमृगीदृशः॥५३५॥तस्यानुभावतस्तस्याः सद्यः कुष्ठः प्रनष्टवान् । आर्जवादिव दोर्जन्यमौदार्यादिव दुर्यशः ॥ ५३६ ॥ रूपश्रीः प्रादुरासीच्च पूर्वतोऽप्यतिशायिनी । वल्लया दवाग्निदग्धाया इव नव्याम्बुयोगतः| ॥ ५३७ ॥ रसेन पुनरानञ्ज द्वितीयस्या दृशौ नृपः । शशाम च समग्राऽपि तस्याः सपदि वेदना ॥५३८ ॥ दिवाऽपि तारकालोकालङ्कर्मीणे विकस्वरे । अजायेतां दृशौ चास्याः पद्मे इव दिनोदये ॥ ५३९ ॥ अथ प्रमुदिता रत्नसेनाद्या नृपमूचिरे । यथोल्लाध्य त्वया कन्ये दुःखाब्धेरुदधृष्महि ॥ ५४०॥ तथा स्वामिनिमे पाणौ कृत्य चिन्तार्णवादपि । उद्धरास्मान् यथा स्वस्थाः स्वार्थाय प्रयतामहे ॥५४१॥ तदभ्यर्थनया सोऽपि तत्कृतैरद्भुतोत्सवैः। पाणौ चकार ते कन्ये पुण्ये काः संपदो नहि ॥ ५४२॥ पुराऽप्यभङ्गवैराग्यमागतः स्वाङ्गजारुजा । दध्यावथ विशुद्धात्मा रत्नसेनो धराधवः ॥५४३ ॥ ॥१२९॥ सूनुर्वः परोलक्षैरप्येकोऽपि न मेऽजनि । अतः परं तदाशापि विधातुं मम नोचिता ॥ ५४४ ॥ धर्म एव हि वार्धक्ये युक्तः सम्यगुपासितुम् । विडम्बनैव विज्ञानां विषयासक्तता पुनः ॥ ५४५ ॥ राज्यधुर्यश्च जामाता मया पुण्यैरवाप्यत । UCCESSAGAMANAGESSA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy