________________
भतीरगम् । चत्रारूढमिवापश्याम्यद्धामनगादिकं ॥ ५११ ॥ वेगेनोग्रेण गच्छन्ती घटिकाद्वितयेन सा । तीरं पूर्वाम्बुधेः प्राप स्वयं तत्र च तस्थुषी ॥ ५१२ ॥ अथोत्तीर्य ततो राजा व्यश्राम्यन् तीरकानने । तत्र चातर्कितं प्राप्तः सोऽप्युवाच प्रणम्य तम् ॥ ५१३ ॥ स्वःसंनिवेशदेशीयः प्राच्यदेशोऽयमुच्यते तस्यालङ्करणं रत्नपुरीयं द्युपुरीनिभा ॥ ५१४ ॥ रत्नसेन नृपस्तत्र वित्रस्तामात्र शात्रवः । सर्वस्या अपि पूर्वस्याः प्राज्यं राज्यं भुनक्ति यः ॥ ५१५ ॥ विंशतेग्रमकोटीनामाधिपत्यं तनोति यः । यश्चैकादशलक्षाणां सिन्धुराणामधीश्वरः ॥ ५९६ ॥ स्वामी शतसहस्राणां दशानां वाजिनां च यः । विंशते रथलक्षाणामक्षामाणामधीशिता ॥ ५१७ ॥ विंशतेः पत्तिकोटीनामादेष्टा दृष्टितोऽपि यः । परं सूनुं विना शून्यं सर्वे राज्यममंस्त सः ।। ५१८ ॥ तस्य कान्ता स्वकान्त्याऽस्तकनका कनकावली । अन्यदाऽद्भुत सौभाग्यं सा प्रासूत सुताद्वयम् ॥ ५१९ ॥ आद्या कनकमञ्जर्यपरा तु गुणमञ्जरी । नव्यस्तारुण्यपर्जन्यस्तद्रूपद्रुमवीवृधत् ॥५२०॥ तदा च प्राच्यदुष्कर्म विपाकेनादिमाऽभवत् । गलत्कुष्ठेन दुष्टाङ्गीः नष्टदृष्टिः परा पुनः ॥ ५२१ ॥ तयोश्चाका रमाकार मगदङ्कार धोरणीः । महीपतिः प्रतीकारानपारानप्यकारयत् ॥ ५२२ ॥ नौषधीभिर्न भेषज्यैर्न चूर्णैर्नापि चाञ्जनैः । न मन्त्रैर्नहि यन्त्रैश्च परं जज्ञे गुणस्तयोः ॥ ५२३ ॥ वेदनाऽपि न देहस्योपशशाम सुदुःसहा । विपाकमन्यथाकर्तुं कर्मठः कः कुकर्मणाम् ॥ ५२४ ॥ ततस्ते दुःखिते मृत्युमङ्गीकर्त्तुमुपस्थिते । विपत्तौ वनिताः प्रायः शरणीकुर्वते मृतिम् ॥ ५२५ ॥ पित्रादयोऽपि तद्दुःखसंक्रान्त्याऽतीव दुःखिताः । तथैवोपस्थिताः कर्त्तु मोहोऽन्धङ्करणो यतः ॥ ५२६ ॥ अथ राज्यमधिष्ठात्री देव्यसेव्यत मन्त्रिभिः । दिविष्ठा साऽप्यभापिष्ट प्रत्यक्षा सर्वसाक्षिकम् ॥ ५२७ ॥ पाटलीपुरतो रत्नपालः क्ष्मापालपुङ्गवः । तरीस्थस्तोयधेस्तीरं प्रातरानेष्यते मया