________________
दानप्रदीपे
॥ १२८ ॥
तन्त्रेण न विद्यया । न सिद्ध्या नापि चौषध्या प्रतिबद्धुं हि पार्यते ॥ ४९४ ॥ तत्कुण्डान्तरखण्डाङ्गः स्नाता यः सात्त्विकाग्रणीः । पाणौ कर्त्ता स ते कन्ये सार्वभौमश्च संभवी ॥ ४९५ ॥ ततः प्रीतः पिता प्रीतिदानेन तममूमुदत् । अनागत्य च कुण्डादि निर्माप्यावामतिष्ठिपत् ॥ ४९६ ॥ वरीतुं शतशोऽध्यस्मानत्रेयुर्युवकुञ्जराः । कल्पान्तार्कमिव द्रष्टुमप्यैष्ट न तु कोऽप्यदः ॥ ४९७ ॥ खेचरोऽयं वुघूर्षुन झम्पां दातुमिहोद्यतः । शङ्कमानः कुण्डदेव्या विकलाङ्गो व्यधीयत ॥ ४९८ ॥ सवैकसारवृत्तीनामद्भुताः स्युर्विभूतयः । कातर्यजातशङ्कानामापदस्तु पदे पदे ॥ ४९९ ॥ इत्याकर्ण्य नृपो वर्यधैर्यः साश्चर्यमानसः । ददौ झम्पामकम्पात्मा तत्र सात्त्विकनायकः ॥ ५०० ॥ जज्ञे कुण्डं सुधाकुण्डं वज्रकायश्च भूपतिः । किं न सत्त्वप्रसादेन सद्यः संपद्यतेऽद्भुतम् ॥ ५०१ ॥ अथ तत्र नियुक्तेभ्यस्तं निशम्य समागमत् । सद्यो विद्याधरो विश्वावसुर्भूरिपरिच्छदः ॥ ५०२ ॥ नृपतिं प्रत्यभिज्ञाय तं पुरा खेचरीपतिम् । मत्वा सत्त्वाढ्यतां चास्य सविशेषं जहर्ष सः ॥ ५०३ ॥ ततो विद्याबलेनाशु सामग्रीं प्रगुणय्य सः । महोत्सवैः स्वपुत्रीभ्यां तं तत्रैवोदवीवहत् ॥ ५०४ ॥ ततो विमानमारुह्य कान्ताद्वितयशोभितः । नृपः खेचरचक्रेण परीतः स्वपुरीं ययौ ॥ ५०५ ॥ कितवश्चामुना कोटीर्वितीर्य द्विगुणा दश । द्यूतं संत्याज्य धर्मिष्ठः श्रेष्ठराजो व्यधीयत ॥ ५०६ ॥ सत्कृत्य सुतरां विश्वावसुप्रमुख खेचरान् । विसृज्य च नृपो राज्यमेकच्छत्रमभुक्त सः || ५०७ ॥ अथान्यदा निदाघर्तावन्तस्त्रिदशदीर्घिकम् । स्वयं चिक्रीडिषुर्नावमारुरोह महीपतिः ॥ ५०८ ॥ प्रेरितां चण्डवातेन तावदाकस्मिकेन नौः । गन्तुं प्रववृते वेगाद्योषा रोषाकुला यथा ॥ ५०९ ॥ न भटैरुद्भटैनम्भःप्लावकैर्नाविकैश्च सा । अपार्युन्मार्गतो रोद्धुं बन्धकीव स्वबन्धुभिः ॥ ५१० ॥ किमेतदिति संभ्रान्तो भूमांस्तत्रो
अष्टमः प्रकाशः
॥ १२८ ॥