________________
दानप्रदीपे
प्रथमः प्रकाश
प्रतिज्ञाप्राप्तमुद्रेण हरिश्चन्द्रेण भूभुजा । चक्रे पानीयमानीय दास्यं श्वपचवेश्मनि ॥ १९४ ॥ वाग्बन्धबन्धनाश्चण्डदोर्दण्डा देवि! पाण्डवाः । वनवासमसेवन्त वत्सराणि त्रयोदश ॥ १९५॥ स्वभावेनापि यां भाषां भाषते पुरुषाग्रणी। पाषाणो|त्कीर्णरेखावदेषा नैवान्यथा भवेत् ॥ १९६ ॥ अतः सकृन्मया देवि ! गन्तव्यमुपकोणपम् । साऽप्यूचे तर्हि तत्राहं समेध्यामि समं त्वया ॥ १९७॥ मृतिर्वा जीवितव्यं वा सममेवावयोवरम् । संपत्तौ वा विपत्तौ वा सतीनां हि गतिः पतिः ॥ १९८॥ कुमारः पुनरूचे तां वाग्बन्धात्तत्र याम्यहम् । त्वं पुनस्तावदत्रैव तिष्ठ धीरिष्ठमानसा ॥ १९९ ॥ गमनानन्तरं तत्र प्रवृत्तिमवगत्य मे । मत्स्वरूपानुरूपं च कार्य कार्य त्वया प्रिये !॥२००॥ इत्याभाष्य प्रियामेष रहः केनाप्यवी| क्षितः। एकाकी प्रस्थितःप्राप भवनं तस्य रक्षसः॥ २०१॥ आख्यच्च रक्षसां मुख्य ! स एवाहं समागमम् । येनात्मा त्वत्पुरोऽबन्धि दामन्येव प्रतिज्ञया ॥ २०२॥ प्रसादादेव ते देव ! तामुपायंसि सुन्दरीम् । स्वेच्छया च विधत्स्वेति |ब्रुवस्तस्थौ स तत्पुरः ॥ २०३ ॥ तं प्रेक्ष्य हर्षितं रक्षः क्षामकुक्षि क्षुधातुरम् । कृपाण्या निष्कृपं तस्य तर्नु छेत्तुं प्रचक्रमे | 3 |॥२०४॥ तावत्स्वकान्तप्राणान्तशङ्काव्याकुलिताशया । अपारयन्त्यपारार्तिः स्थातुं स्वावासमन्तरा ॥ २०५॥ स्वप्रेष्ठपृष्ठतस्तत्र प्राप्ता मदनमञ्जरी । पाप्मन् ! मा मेति जल्पन्ती तस्थौ तद्यमन्तरा ॥२०६ ॥ युग्मम् ॥ आचचक्षे नृचक्षास्तां तत्सत्त्वं वीक्ष्य हर्षितः। काऽसि त्वं किन्नु मे भक्ष्यमिमं रक्षसि पूरुषम् ॥ २०७॥ साऽपि राक्षसमाचख्यावयं मे जीवि|तेश्वरः । वसुधायाश्चतुर्द्धिमेखलायाश्च रक्षिता ॥ २०८॥ महान्तं तदिमं मुश्च दक्ष ! भक्षय मां पुनः। भूयस्योऽपि भविष्यन्ति मादृश्यः पुनरस्य यत् ॥ २०९॥ पुनस्तां कौणपोऽजल्पन्न कल्पोऽस्मादृशामपि । वधे स्त्रीणां यतोऽवध्याः