SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे द्वितीयः प्रकाशः। ॥२०॥ सदाचारी पितृभक्तिपरायणौ । असीमविक्रमौ स्फीतमहिमानौ यशस्विनौ ॥ ३४॥ परं प्राकर्मदोषेण परस्परमहर्निशम् ।। समृद्धिमसहिष्णू तावसूयामासतुस्तमाम् ॥ ३५॥ भूयादभवनिस्तेषां कषायकलुषात्मनाम् । मिथो वीक्ष्य न मृष्यन्ति | समृद्धिं बन्धवोऽपि ये ॥३६॥ तुल्यकक्षतया तौ तु नृपतिश्चतुराग्रणीः । तुलाचेलाविवौचित्यात्सर्वत्र निरवीवहत्॥३७॥ अन्यदा प्रातरास्थानमास्थितं पृथिवीपतिम् । वेत्री व्यजिज्ञपवारि दूतः प्राप्तोऽस्ति कश्चन ॥ ३८ ॥ ततो भूभर्तुरादेशात्प्रतीहारप्रवेशितः । प्रणम्य क्ष्माभुजे लेखमर्पयामासिवानयम् ॥ ३९ ॥ महीपृष्ठस्तमुद्देश्य वाचयामास तद्यथा । स्वस्ति श्रीभाजने राजपुरे सुरपुरोपमे ॥४०॥नमन्नृपशिरोदामपूज्यमानपदाम्बुजम् । श्रीजयन्तमहीकान्तं गङ्गोपान्तभुवि स्थितः ॥४१॥ नियुक्तः सीमरक्षायां कुरुदेवकसेवकः । प्रणम्य मस्तकन्यस्तहस्तो विज्ञपयत्यदः ॥ ४२ ॥ अस्त्यत्र कुशलं तत्र भवत्पादप्रसादतः। परं सेवालभूपालः सीमालः कालदारुणः॥४३॥ धाटीभिलण्टयन् ग्रामानभिरामान समृद्धिभिः। उपद्रवत्यमुं देशं भत्तेभ इव काननम् ॥ ४४ ॥ युग्मम् ॥ नाहमल्पबलस्तं तु निवारयितुमीशिता । अस्मिन्नर्थे ततः कश्चिदुपायश्चिन्त्यतां द्रुतम् ॥ ४५ ॥ वाचयित्वेति तं भूपः कोपपाटललोचनः । सामन्तादीनभाषिष्ट भ्रकुटिस्थपुटाननः ॥४६॥ भो भोः पश्यत पारीन्द्रं सुप्तं जागरयत्ययम् । विधत्ते यन्मया साधं विरोधं दुर्धियां निधिः॥४७॥ निग्रहीतुममुं योधाः संनद्धा भवत द्रुतम् । नहि व्याधिरिव द्वेषी क्षणमात्रमुपेक्ष्यते ॥४८॥ तं ससंरम्भमित्यादि भाषमाणं रुषारुणम् । प्रणम्य रणशौण्डीरौ कुमारौ सममूचतुः॥४९॥ अस्मासु सत्सु किं स्वामिन्नभिषेणयसि स्वयम् । प्रयासो हि प्रभो व युज्यते सति सेवके ॥५०॥ न च ते राजहंसस्य तात ! गन्तुमुपक्रमः। युज्यते प्रति सेवालं जडसङ्गतिगर्वितम् ॥५१॥ ACC- 2X5o4% ॥२०
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy