SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चक्षुर्जने गौरवकारणम् । तथा स्वल्पमपि ज्ञानमिहामुत्र च देहिनाम् ॥ १७ ॥ दीयमानं ध्रुवं वृद्ध्यै ज्ञानं स्वस्य परस्य च । अन्यथा त्वन्यथा कस्तद्दानेनोद्यच्छते ततः ॥ १८ ॥ स्थलाम्बुबद्धनादीनां स्वल्पकालादपि क्षयः । उत्तरोत्तरवृद्धिस्तु ज्ञानस्य वटवीजवत् ॥ १९ ॥ शय्यम्भवद्विजे दत्तं श्लोकार्द्धमपि साधुभिः । द्वादशाङ्गतया स्फातिमुपेतं श्रूयते ॥ २० ॥ सम्यग्ज्ञानं सुदुष्प्रापं यस्मै येन वितीर्यते । स्वर्गापवर्गसौख्यानि तस्मै तेन वितेरिरे ॥ २१ ॥ कृतानेककुकर्माणं चिलाती पुत्रमप्यहो ! । श्रमणस्त्रिपदीं दत्त्वा दिव्यां संपदमापिपत् ॥ २२ ॥ वेत्ति पुण्यं च पापं च सम्यग्ज्ञानेन मानवः । तत्प्रवृत्तिनिवृत्तिभ्यां मुक्तिमाप्नोति च क्रमात् ॥ २३ ॥ प्रायः परेषु दानेषु दायकः संपदां पदम् । उभावपि पुनर्ज्ञानदाने ग्राहकदायकौ ॥ २४ ॥ दत्तं स्थानेऽपि वित्तादि क्रमेणैव विवर्धते । अल्पीयोऽपि पुनर्ज्ञानं सद्योऽपि स्फातिमश्नुते ॥ २५ ॥ श्रूयते त्रिपदी दत्ता जिनेन गणधारिणाम् । द्वादशाङ्गीति विस्तारमानोत्यन्तर्मुहूर्ततः ॥ २६ ॥ ज्ञानादपैति रागादिगण| स्तम इवार्कतः । ज्ञानदानं ततो मुक्त्वा नोपकारोऽपरः परः ॥ २७ ॥ यो दानादानतो ज्ञानमाराध्यति विराध्यति । स पूज्यत्वमपूज्यत्वमश्नुते विजयो यथा ॥ २८ ॥ तथाहि भरतक्षेत्रभूमिभूषाविशेषकः । पुण्यलक्ष्मीकृतावेशो देशोऽस्ति मगधाभिधः ॥ २९ ॥ तत्र राजगृहं नाम नगरं कमलां निजाम्। पात्रता कुर्वते यत्र पवित्रीकर्तुमुत्तमाः ॥ ३० ॥ जयन्तस्तत्र भूकान्तः प्रतापाक्रान्तशात्रवः । सनीतिमध्यनीतिं यः सर्वतः कृतवान् भुवम् ॥ ३१ ॥ सुदर्शनेन रोचिष्णोः पुरुषोत्तमताभृतः । कान्ता तस्याच्युतस्येव कमला कमलावती ॥ ३२ ॥ तत्कुक्षिसंभवौ तस्य तनयौ विगतानयौ । विजयश्चन्द्रसेनश्च राज्यधुर्यौ विरेजतुः ॥ ३३ ॥ उभावपि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy