________________
दानप्रदीपे|
द्वितीयः प्रकाशः।
॥१२॥
॥ अथ द्वितीयः प्रकाशः॥ श्रिये सुधर्मा नवजातवेदा यस्याक्षरात्मा श्रुतदीप एषः। निरञ्जनस्तत्त्वपथप्रकाशमद्याप्यविश्रान्ततया तनोति ॥१॥
अथ शाखा इवाख्यामि दानकल्पतरोभिदाः । फलं याःप्रौढमारूढालभन्तेऽभीष्टमङ्गिनः॥२॥ भवेद्दानं त्रिधा ज्ञानाभयोपष्टम्भभेदतः । तत्र प्रापश्चयन् पञ्च ज्ञानानि ज्ञानिपुङ्गवाः॥३॥ मतिश्रुतावधिमनःपर्यवाः केवलं तथा । तेषु मुख्यत्वमाचख्युः श्रुतस्यैव विचक्षणाः ॥४॥ श्रुतं दीप इव स्वान्यप्रकाशे हि प्रगल्भते । अपराणि पुनस्तानि स्वप्रका|शीनि मूकवत् ॥५॥ सम्यक्स्वरूपमप्येषां श्रुतेनैव प्ररूप्यते । श्रुताभ्यासवशादेव प्रायस्तेषां च संभवः॥६॥ ज्ञानानि हृदयेऽन्येषामपि दीपयति श्रुतम् । दीपो दीपान्तराणीव दीप्यते चानिशं स्वयम् ॥७॥परेभ्यश्च श्रुतं दातुं प्रभूतेभ्योऽपि पार्यते । दीप्यमानान्यपि स्वस्मिन्नपराणि पुनर्नहि ॥ ८॥ अतो युक्ता श्रुतस्यैव सर्वज्ञानप्रधानता । तच्च सम्यगुजिनोपझं वचस्तदनुसारि च ॥९॥ सम्यग्दृष्टिधिया पूतं शास्त्रमन्यदपि श्रुतम् । अन्येभ्यस्तस्य यद्दानं ज्ञानदानं तदुच्यते
१०॥ जन्तूनां मृत्युभीतानामभयं यत्प्रदीयते । वदन्त्यभयदानं तन्निदानं सर्वसंपदाम् ॥ ११॥ यद्दानं दीयते पात्रे धर्मोपष्टम्भपुष्टये । उपदिष्टमुपष्टम्भदानं तजिननायकैः ॥ १२॥ एत एव त्रयो धा भेदा दानस्य वास्तवाः । एषा|मेव यदक्षय्यमोक्षसौख्यैकहेतुता ॥ १३ ॥ भिदास्तस्य दयौचित्यकीर्तिदानादयस्तु याः। मार्गगास्ता यथायोगं तेष्वन्त-1
र्भावमाश्रिताः ॥ १४ ॥ तद्वदक्षयतां यान्ति सरितः सागरेष्विव । प्रवृत्ता मार्गमुत्सृज्य क्षीयन्ते यत्र तत्र तु ॥ १५ ॥ युग्मम् ॥ अमीषु ज्ञानदानस्य ब्रूमो मूर्दाभिषिक्तताम् । सर्वेषामपि यत्तेषां प्रवृत्तिर्ज्ञानपूर्विका ॥ १६ ॥ लघीयोऽपि यथा
॥१९॥