SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ रिणी। जानवन्द्यो ददौ श्रेय श्रीणां सत्याकृतीरिव ॥ ५७३ ॥ अयं मृत्युभयातोनां बन्धाद्यापदमापुषाम् । बहुद्रव्यव्ययेनावि देहिनामभयं ददौ ॥ ५७४ ॥ त्रिलक्षीमित्ययं पुण्ये विनिन्ये पूर्वजार्जिताम् । वित्तस्यैका गतिः पात्रदानं ह्यन्या। विपत्तयः॥ ५७५ ॥ स्वार्जितेन तु वित्तेन कुटुम्ब निरवीवहत् । सिंहवन्नरसिंहा हि भुञ्जते नार्जितं परैः॥५७६ ॥ इत्यहद्धर्ममाराध्य साध्यं संसाध्य चान्तिमम् । विपद्य धनराजोऽयं नृपतिस्त्वमजायथाः॥ ५७७ ॥ कृत्वा पुण्यान्यगण्यानि धन्याऽपि न्याय्यवृत्तितः। विपद्य तव पत्नीयं जज्ञे मदनसुन्दरी ॥५७८ ॥ स्वाराज्यजिष्णुरभवत्तव राज्यऋद्धिः कच्चोलकं सकलकामितदायि यच्च । सर्व विजृम्भितमिदं किल दानपुण्यकल्पद्रुमस्य कुसुमोद्गममागतस्य ॥ ५७९ ॥ विपाकमाप्तस्त्वयमल्पकालतस्तवाक्षयं सिद्धिसुखं फलिष्यति । पुष्पाणि यन्मानवदेवसंपदः फलं तु मुक्तिर्जिनधर्मशाखिनः॥ ५८०॥ | एवं निशम्य निजपूर्वभवं सभार्यः संवेगसङ्गतमना नृपतिर्विधाय । अष्टाहिकोत्सवमतुच्छममत्सरात्मा राज्यं नियोज्य तनये जगृहे तपस्याम् ॥ ५८१॥ तप्वा तपांसि चिरकालमिमौ समूलं निर्मूल्य कर्म सकलं विकलङ्कवृत्ती। श्रीकेवलार्ककिरणैर्भुवन विभास्य निःश्रेयसश्रियमशिश्रियतां क्रमेण ॥ ५८२ ॥ इत्यद्भुतं विशददानमयावदातैः श्रीमेघनादनृपतेश्चरितं निशम्य । निछद्मदानविधये सुधियोऽवधत्त येन स्वयं श्रयति वः शिवसौख्यलक्ष्मीः॥५८३॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्य श्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे दाना साधा रणदानफलप्रकाशनः प्रथमः प्रकाशः॥१॥ ग्रन्थानम् ६११॥ ACIRCRA-%A5
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy