________________
तन्नः प्रदीयतां देव ! निदेशस्तस्य निग्रहे । खण्डयामो यथाऽनल्पमपि तदर्पमञ्जसा ॥५२॥ इत्याकर्ण्य नृपश्चक्षुश्चिक्षिपे है। मुख्यधीसखे । दक्षः सोऽपि समाचख्यौ साधूक्तं राजपुत्रयोः॥५३॥ वक्तुं हि कः परो वेत्ति प्रस्तावोचितमीदृशम् । तत-|
स्तन्निग्रहे भूपो ज्येष्ठमादिष्टवान् सुतम् ॥ ५४ ॥ अथापमानं मन्वानः क्रुधा धमधमायितः। चन्द्रसेनः समज्यातो निर्यातुं द्रुतमुत्थितः॥ ५५ ॥ सभाक्षोभे ततो जाते तातेनायं कथञ्चन । निवर्त्य पाणिनाऽऽदाय प्रोचे प्रेमकिरा गिरा ॥५६॥ किं तेऽयमपदे कोपः स्थितिं वत्स ! न वेत्सि किम् ? । ज्येष्ठे सति कनिष्ठस्य भवेदुत्थापनं न यत् ॥ ५७ ॥ कियदेतत्पितृप्राये ज्येष्ठे सति सहोदरे । न राज्यमपि वाच्छन्ति कुलीना दीयतेऽपि चेत् ॥ ५८॥ सम्मानमपि केनापि दीयमानमपक्रमम् । अपमानमिवामानं मन्वते हि मनस्विनः ॥ ५९॥ न च क्वाप्युचितः कर्तु मत्सरः स्वच्छचेतसाम् । गुणोत्कृष्टे निजज्येष्ठे किं पुनर्जनकोपमे ॥ ६०॥ ततो मात्सर्यमुत्सार्य वत्स ! स्वच्छमना भव । कुन्दावदातकीर्तीनां येन स्या भाजन जने ॥ ६१ ॥ इति प्रज्ञापितोऽप्येष नोपशान्तिमुपेयिवान् । ततो नृपगिरा सामसचिवेन स औच्यत ॥ ६२॥ प्रतिकूलयसि स्वामिवचनं किं पुनः पुनः। स किं पुत्रो हि यः पित्रोनिदेशमतिवर्तते ॥ ६३ ॥ स्वं चाविनयपङ्केन किं करोषि मलीमसम् । विशदा विनयादेव कीर्तिः स्फूर्तिमियर्ति यत् ॥ ६४ ॥ कीर्तिश्च जीवितं पुंसां प्राणास्तु व्यवहारतः। दुष्कीर्तिदुःखदग्धानां श्रेयसी जीवितान्मृतिः॥६५॥ किञ्च-राजपुत्रेषु सर्वत्र विनयाकरता स्मृता । यदि तेऽपि तमुज्झन्ति तदाऽस्य गतिरस्तु का ? ॥ ६६ ॥ विनीतस्तनयस्तां तामानीतः परिकर्मणाम् । जातरूपमिवाप्नोति सर्वस्यालङ्करिष्णुताम् ॥ ६७ ॥ इत्यादिहितशिक्षाभिर्द्राक्षाभिरिव मन्त्रिणा । निर्वाप्य कोपसंतापं स्वास्थ्यमाप्यत भूपभूः ॥ ६८ ॥ अथाभिषेण