SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ न दानप्रदीपे HASHA %A5%25A यामास विजयो विजयोत्सुकः । वाद्यैर्वादितदिकक्रश्चतरङ्गचमूवृतः॥६९॥ प्राप्तः स्वदेशसीमायां सैन्यमावास्य राजसूः।। द्वितीयः प्राहिणोत् ज्ञापिताकूतं दूत सेवालभूपतेः ॥ ७० ॥ सोऽप्युपागम्य सीमालमालपत्तस्य वाचिकम् । अविमृश्य बलं युद्ध- प्रकाशः। प्रारम्भः पदमापदः ॥ ७१ ॥ प्रणतिस्तु बलोत्कृष्टे वैशिष्ट्याय स्वसंपदः । एवं संचिन्त्य यद्युक्तं प्रतिभाति कुरुष्व तत् । ॥ ७२ ॥ सेवालोऽप्यालपहूतं कातरा रणकर्मणि । नीतिमार्ग समाश्नित्य विमर्श तन्वते नृपाः ॥७३ ॥रणकण्डूलदोष्णां तु न नीतिः प्रीतिकारिणी । का वा नीतिगेन्द्रस्य मतदन्तिघटाभिदि ॥ ७४ ॥ युद्धे सन्नह्यतामाशु भुजौ तस्मिन्निमौ च | मे । स्वयमेव बलोत्कर्षापकर्षों दर्शयिष्यतः ॥ ७५ ॥ एवमावेद्य सद्यस्तं विससर्ज स ऊर्जितः । दूतोऽप्यागत्य तस्योक्ति | राजसूनुं व्यजिज्ञपत् ॥ ७६ ॥ सोऽपि ज्ञप्तरणारम्भां भम्भां भृत्यैरवादयत् । सद्यः संना सैन्यं च समराङ्गणमागमत् P॥७७ ॥ युद्धसन्नद्धमाधाय स्कन्धावारमुदायुधः। सेवालः प्रतिभूपालस्तेने तस्याभ्यमित्रताम् ॥ ७८ ॥ अथाहं पूर्विकापूर्वमुभयोरपि सैन्ययोः । रथिका रथिकैः साकं सादिभिः सह सादिनः ॥ ७९ ॥ यन्तृभिः सह यन्तारः पत्तिभिः सह पत्तयः । भटा दर्पोद्भटा द्वन्द्वयुद्धाय समगंसत ॥ ८ ॥ युग्मम् ॥ केचिदायोधनं योधाः कुन्ताकुन्ति वितेनिरे । खड्गाखङ्गि तथा केऽपि शराशरि परे पुनः॥ ८१॥ प्रचण्डभटदोर्दण्डकण्डूखण्डनपण्डितः । कातराणां दुरालोकस्तत्राभूहा|रुणो रणः ॥ ८२॥ अथ दैववशाद्भग्ना नृपसूनोरनीकिनी। पलायामास भग्नानां बलं नान्यत्पलायनात् ॥८३॥ तथाऽपि युध्यमानस्तु कुमारः स्फारविक्रमः । बलान्यवर्त्यतामात्यैरनिच्छन्नपि युद्धतः॥८४॥ निजं स सैन्यमायातस्त्रपया स्वपुरं प्रति । नाचाली किन्तु तत्रैव तस्थौ दुःस्थितमानसः॥ ८५॥ जितकाशिनमात्मानं मन्यमानः स्वमानसे । प्रत्यर्थी तु निज 4 % %
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy