________________
स्थानमस्थानमगमद्भियाम् ॥८६॥ अथाकर्ण्य तथावृत्तं दुःखितः क्षमापतिः सुतम् । धीनिधानः प्रधानस्तं जवादाजू हवत्ततः॥ ८७॥ अथ प्रस्थातुमुधुक्तस्तं प्रति क्षमापतिः स्वयम् । नत्वा विज्ञपयांचवे चन्द्रसेनेन सूनुना ॥८८॥ देव ! प्रसद्य विद्वेषिपेषणे प्रेषयाथ माम् । लघीयानसमर्थोऽयमिति चित्ते च मा मथाः ॥ ८९॥ गुरूनपि गिरीन्द्रान् किं भिनत्त्यल्पोऽपि नो पविः। न केशरिकिशोरः किं हन्ति मत्तमपि द्विपम् ॥९॥धीसखा अप्यभाषन्त प्रसह्य प्राग् न्यषेध्ययम् । | तदस्य साम्प्रतं रङ्गभङ्गः क न साम्प्रतम् ॥ ९१ ॥ प्रेष्यतामेष एवात्र सविशेषचमूवृतः। सत्त्वं लोकोत्तरं ह्यस्य निश्चि| नोति जयश्रियम् ॥ ९२ ॥ ततो भूपतिनाऽऽदिष्टः प्रकृष्टपृतनान्वितः । चन्द्रसेनो ययौ देशसीमानं समरोन्मनाः ॥९३॥ | तत्रावस्थाय वक्तव्यं शिक्षयित्वा विचक्षणम् । दूतं सेवालभूपालपार्श्वे प्रेषयति स्म सः॥ ९४ ॥ गत्वा नत्वा च सेवाल|मालपत्सोऽपि वाचिकाम् । दैवस्य दुर्विलासेन क्वापि सारङ्गसङ्गरे ॥ ९५ ॥ यदि प्रमादवान् भग्नः पलायामास केशरी। इयतैव वराकाः किं सारङ्गाः सिंहजिष्णवः॥९६ ॥ युग्मम् ॥ प्रमद्वरस्त्वयाऽप्येवं पराजिग्ये मदग्रजः। एतावतैव मा मंस्था जितकाशित्वमात्मनः॥ ९७॥ विनाशं नीयते येन ज्वलन्नपि हुताशनः । पयस्तदपि पश्याब्धौ ग्रस्यते वडवाग्निना ॥ ९८ ॥ त्वया ध्रुवं प्रपञ्चेन जिग्ये मे ऋजुरग्रजः। विक्रमेण विजेतुं तु शक्रेणापि स दुःशकः॥ ९९ ॥ समस्ति वास्तवी काऽपि यदि ते सांयुगीनता । तदाऽधुना मया सार्द्ध योद्धं सन्नद्धतां भज ॥१०॥छलेन निर्जितोऽस्मीति मा वादी: कस्यचित्पुरः । कुलीना विक्रमेणैव विजिगीषामहे वयम् ॥ १०१॥ अथाललाप सेवालः स्वामिनस्ते निरर्गलाः । बाला जल्पन्ति वाचाला यत्तदुच्छृङ्खलं वचः॥ १०२॥ अमीषामिव मे वक्तुं युज्यते ज्यायसः किम । कर्म बालानुरूपं हि बाला