SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥२२॥ एव प्रकुर्वते ॥१०३ ॥ अमी वा खलु निर्दोषाः पितैवेषां सदूषणः । नियुङ्क्ते यः कुधीर्वालानमुष्मिन् भीषणे रणे ॥१०४॥ द्वितीयः वाचाटा विनयोत्सृष्टा दुष्टा दुःशिक्षिता इति । शिक्षितुं प्रेषयत्येष तानूनं छद्मनाऽमुना ॥ १०५ ॥ तत्पश्चाद्गच्छ दूत! स्वं प्रकाशः। प्रभुं प्रति वदेरिदम् । जय्योऽसि मे सुखेनेति कास्तु सन्नद्धता युधि ॥ १०६ ॥ कुरङ्गपूगभङ्गाय का सामग्री मृगेशितुः। छिदायामजनालस्य परशोः का निशातना ॥ १०७ ॥ परं तव समं पित्रा युज्यते योद्धमादितः । द्वेषी वा यदमीक्षा विदन् यस्त्वामपीपतत् ॥ १०८॥ इत्याकये गतो दूतः प्राणमन्नृपनन्दनम् । सकलं च तदाला ज्ञापयामासिवान् रहा ॥ १०९॥ चन्द्रसेनस्तमाकर्ण्य विममर्श सविस्मयः । गम्भीरार्थोऽयमालापः प्रसन्नस्तस्य कीदृशः ॥ ११ ॥ आत्मोत्कर्षहैमयुक्तं तु दूतेनाहमजिज्ञपम् । सतामात्मप्रशंसा हि त्रपायाः परमं पदम् ॥ १११ ॥ गरीयः कुर्वते कार्य स्वल्पं जल्पन्ति || साधवः। वार्षिका इव पर्जन्या गर्जाडम्बरवर्जिताः ॥११२॥ अस्मादृशाः पुनर्मुग्धा यौवनोत्तानमानसाः। श्रिता वाक्शरतामेव वारिदा इव शारदाः॥११३ ॥ गाम्भीर्यादिगुणश्रीणामाश्रयः प्रतिभाति मे । स शत्रुरपि सेवालो यस्यैषाऽऽलापपद्धतिः॥११४ ॥ अतोऽनेन समं योद्धं युज्यते न यथा तथा । विपदामास्पदं यस्मादविमृश्य विधायिता ॥ ११५॥ इत्यामृश्य रहस्तेनाकारिता मुख्यधीसखाः । ज्ञापिताः स्वमभिप्राय विचार्य प्रत्यवादिषुः ॥ ११६ ॥ यथा कथयसि स्वामि-18 स्तथैव प्रतिभाति नः । अतो रहः प्रहीयन्ते तत्र प्रत्ययिताश्चराः॥ ११७ ॥ प्राप्तास्ते तत्र जानन्ति सपत्नस्य बलाबले । |लक्षयन्ति च तद्भक्ताभक्तं सामन्तमण्डलम् ॥ ११८ ॥ मृगयन्ते च दुर्गादिमार्गाणां निर्गमागमौ । ज्ञापयन्ति यथाऽस्माकं | तत्रत्यं सर्वमप्यदः ॥११९॥ तज्ज्ञापितानुरूप्येण सामभेदादयः पुनः। व्यापार्यन्ते यथायोगमुपाया विजयावहाः॥१२०॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy