________________
मन्त्र्युक्तं तत्प्रपद्याथ कुमारश्चतुरांश्चरान् । चतुरः प्रेषयद्वेषविशेषमिषपोषिणः ॥ १२१ ॥ तेष्वाद्यः सामवित्तत्र भेजे राज्ञः पुरोहितम् । द्वितीयो मन्त्रनिष्णातो महामन्त्रिणमाश्रितः ॥ १२२ ॥ नैमित्तिकस्तृतीयस्तु सिषेवे सैन्यनायकम् । ज्योतिर्वेत्ता तुरीयस्तु पर्युपास्त महीपतिम् ॥ १२३ ॥ वैदेशिकेति विख्याताः स्वस्वविधासु कोविदाः । तत्तत्कार्येषु धुर्यास्ते समयज्ञाः प्रियंवदाः ॥ १२४ ॥ प्रवीणैरप्यविज्ञातमध्या बुद्ध्या निकेतनम् । प्रावर्तन्त तथा स्वस्वनियोगेष्वभियोगतः ॥ १२५ ॥ दिनैः कतिपयैरेव पारंपर्यागता इव । भेजुरभ्यन्तरीभावं भूपादीनाममी यथा ॥ १२६ ॥ युग्मम् ॥ व्यजिज्ञपंश्च तत्रत्यं प्रत्यहं ते रहः प्रभुम् । अहो ! दम्भनटेन्द्रस्य कूटनाटकपाटवम् ॥ १२७ ॥ कुमारमन्यदा प्रोचुः सचिवाः स्वान्ययोर्बले । समाने स्वस्य वा प्राज्ये युज्यते समरोद्यमः ॥ १२८ ॥ सैन्यसंपदनल्पा च सम्प्रति प्रतिभूपतेः । अतस्तेऽवसरस्तेन न संग्रामयितुं समम् ॥ १२९ ॥ तावता क्रियतां देव ! तद्देशोपद्रवस्ततः । तथा च त्वं प्रपत्स्यन्ते तत्तद्देशापिधा भिया ॥ १३० ॥ एवं च वैरिणः सैन्यं हास्यते बहुलेन्दुवत् । वर्धिष्यते त्वदीयं तु शुक्लपक्षशशाङ्कवत् ॥ १३१ ॥ ततो वेगवदुत्तुङ्गतुरङ्गादिचमूवृतः । विनाशयितुमारेभे शत्रुदेशं नरेशसुः ॥ १३२ ॥ अथ भ्रूक्षेप चूडालभाल: सेवालभूपतिः । सार्धं तेन क्रुधा योद्धुं ध्वजिनीः समनीनहत् ॥ १३३ ॥ गणकैर्गणयामास लग्नं यात्रां चिकीरयम् । आगन्तावपि दैवज्ञे चिक्षिपे चक्षुरुन्मुखः ॥ १३४ ॥ दैवज्ञोऽप्यवदत् स्वामिन्नमीभिर्गणकाग्रिमैः । दीयमानमिदं लग्नं सदोषं कथ्यते कथम् ॥ १३५ ॥ परं वक्तुं प्रयुङ्क्ते मां देवभक्तिरकृत्रिमा । स किं भक्तो हितं वक्ति न योऽप्रियमपि प्रभोः ! ॥ १३६ ॥ बलेनैतस्य लग्नस्य स्थिरराश्यादिशालिनः । स्थितस्यात्रैव देवस्य पश्यामि विजयश्रियम् ॥ १३७ ॥ बभाषिरे परे ज्योति -