SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे। ॥९९ ॥ ॥ अथ सप्तमः प्रकाशः॥ सप्तमः श्रीगौतमः संपदमक्षयां मे ददातु यत्तेन वितीर्यमाणम् । अक्षय्यतामञ्चति वस्तु तेषां तपस्विनां पायसवत् समग्रम् ॥१॥४॥ प्रकाशः। अथाहारप्रदानाख्यः साक्षी मोक्षसुखश्रियाम् । तुरीयः स्तूयते भेदो धर्मोपष्टम्भदानगः ॥२॥ उपादानं हि देहस्याहारः पुण्योपकारिणः । शय्यादीनां पुनदृष्टा सहकारिनिमित्तता ॥३॥ ततः सर्वेषु दानेषु मुख्यं तद्दानमिष्यते । बीजाधानमिव क्षेत्रव्यापारेष्वखिलेष्वपि ॥४॥ तस्मिन्नेव तृतीये वा भवे सिद्धिर्भवेन्नृणाम् । अन्नदानानुभावेन जिनेन्द्रादि-18 मपारणे ॥५॥जनेऽपि श्रूयतेऽन्नस्य सर्वेभ्योऽपि प्रधानता । तथाहि रामः कान्तारे स्थित्वा द्वादशवत्सरीम् ॥६॥ निहत्य रावणं लङ्काधिपत्यमधिगत्य च । अयोध्यामागतोऽप्राक्षीदन्नक्षेमं महाजनम् ॥७॥ युग्मम् ॥ अथान्योन्यं वितन्वानं व्यावहासी विलोक्य तम् । धीमान निमन्त्रयामास भोजनाय जनाधिपः ॥८॥ तस्यासननिविष्टस्य प्रकृष्टानि स्वकोशतः। रत्नानि स विशालेषु स्थालेषु पर्यवेषयत् ॥९॥ विलोक्य तं मिथो वक्रव्यावलोकीपरं नृपः। भुज्यते किं न. युष्माभिरित्यवोचत सस्मितम् ॥ १०॥ शक्यते भोक्तुमस्माभिषा रसवती नवा । इत्याख्यान्तं तमाचख्यौ सोपालम्भ पुनर्नृपः॥११॥ उपाहस्ये कथं तर्हि प्रश्नयन्नन्नमङ्गलम् । न वित्थ सकलार्थेभ्यो यदन्नस्य प्रधानता ॥ १२॥ नियन्ते । यदसंपत्तौ द्रुतं यस्य च संभवे । जीवन्त्यारडूमाराजं सर्वे पश्यत जन्तवः॥ १३ ॥ यस्योत्पत्तिश्च दुःसाधा व्ययः पुनरनारतम् । तस्यैवाशनरत्नस्य कुशलप्रश्नयोग्यता ॥ १४॥ यत उक्तम् "पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा नियोजिता ॥१॥" ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy