SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तथेति प्रतिपद्याथ क्षमयामास तं जनः। भोजयित्वा च तं प्राज्यभोज्यानि व्यसृजन्नृपः॥ १५॥ ततः सर्वत्र तहानं शस्त पाने विशिष्य तु । सस्योपकारिणी वृष्टिः शुक्तौ मुक्ताकरी न किम् ॥१६॥ एक एव भुवि श्रेयान् श्रेयांसःश्रेयसां निधिः। युगादावादिदेवाय यो ददे रसमैक्षवम् ॥ १७ ॥ यश्च प्रवर्तयामास बहुधान्योपकारिणीम् । प्रथमं भरतक्षेत्रे पात्रदानाम्बुसारणीम् ॥ १८ ॥ अज्ञास्यत् को मुनीन्द्राणां कल्प्याकल्प्यमिहान्यथा । व्याख्यास्यद्यदि तन्नैष जातिस्मृत्या पुरो नृणाम् ॥ १९ ॥ पात्रदानवशादेव देवभोगमनोरमाम् । सद्यः संपदमासेदुः शालिभद्रादयोऽद्भुताम् ॥ २०॥ अहो! सुपात्रदानस्य माहात्म्यं स्तुमहे किमु । यत्रानमात्रतः स्वर्गापवर्गश्रीः सुसङ्गमा ॥ २१ ॥ यो यतीनामुपष्टम्भं विधत्तेऽशनदानतः । तेन तीर्थाव्यवच्छित्तिनिर्ममे परमार्थतः ॥ २२ ॥ धर्मो देहात् स चाहारान्न चायमनगारिणाम् । तस्य दानविधौ । तेषां तद्यतेत सचेतनः ॥ २३ ॥ सिद्ध्यै तच्च त्रिधा शुद्ध देयदातृगृहीतृभिः । विशुद्धमेव यद्बीजं जायते शस्यसंपदे ॥२४॥ द्विचत्वारिंशता दोषैर्यत्राधाकर्मिकादिभिः । देयं न दूषितं दक्षा देयशुद्धं तदाऽभ्यधुः ॥ २५ ॥ इदमेव भवेद्दातुरलं फलसमृद्धये । स्यादुपेयं यतः शुद्धमुपायस्यैव शुद्धितः॥२६ ॥ विधत्ते नेषणीयं हि दसं पात्रेऽपि भक्तिः । दातुर्दान | फलप्राप्ती स्वल्पायुष्टादिदौष्टवम् ॥ २७ ॥ तदुक्तं श्रीस्थानाङ्गे18 “तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरंति, तं जहा-पाणे अइवाएत्ता भवइ मुसं वइत्ता भवइ । तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ । इच्चेएहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरंति॥"... कॐॐॐॐॐॐॐॐॐॐॐ SSSSSSSSSSSS
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy