________________
| नेदुस्तथा दुन्दुभयः स्वयं दिवि ॥ १४ ॥ अहो ! अहो ! दानमिति स्तुतिं मुहुर्विधाय जग्मुस्त्रिदिवं दिवौकसः । इदं च तस्याः प्रतिवेश्मिनी स्वयं ददर्श सर्व व्यमृशश्च दुर्गता ॥ १५ ॥ लब्धं मयाऽप्यौपयिकं धनाप्तये ततोऽन्यदा साऽपि सहर्षमानसा । निमन्त्र्य कस्मैचन लिङ्गजीविने मिष्टाशनं दातुमढौकतोन्मनाः ॥ १६ ॥ मुदा ददाना जरती खमुन्मुखं निरीक्षते सा मुहुरुन्मिषेक्षणा । तथा च तां वीक्ष्य जगाद लैङ्गिको भद्रे ! किमुच्चैर्मुखमीक्षसे भृशम् ॥ १७ ॥ वृद्धाऽभ्य| धादम्बरतः पतिष्यति स्वर्ण कदाद्यापि न किं पतेदिति । विलोकमानाऽस्मि पुनर्जगौ व्रती दिवः कुतः काञ्चनपातसंभवः ॥ १८ ॥ साऽप्याह पूर्वेद्युरिहैव साधवे भक्ते प्रदत्ते प्रतिवेश्मयोषिता । दिवः सुवर्ण न्यपतत् पुनर्ब्रती विज्ञाततद्वृत्तत| याऽऽह सस्मितम् ॥ १९ ॥ तत्त्वं गृहान्तस्त्वरितं व्रज ब्रज त्वदीयया वासनयाऽनया दिवः । सुदुस्तपैर्मे च तपोभिरीदृशैः संभाव्यते प्रस्तरपात एव यः ॥ २० ॥ तामित्युदित्वा स जगाम लैङ्गिको वृद्धाऽपि कालं कथमप्यजीगमत् । अतो | निराशंसतयेह धीधनाः ! प्रवर्तनं दानविधौ विधीयताम् ॥ २१ ॥
नापि प्रेत्याधिपत्यादि वाञ्छन् यच्छत्यतुच्छधीः । तनयत्यङ्गिनां दानपुण्यं तत्कामना यतः ॥ २२ ॥ दत्ते धर्मः समग्रोऽपि विनाऽऽशंसां फलं परम् । अनन्तगुणहीनं तु तया मालिन्यमापितः ॥ २३ ॥ भवान्तरेऽपि तद्भोगयोगेन विकृतिं गतः । नयते दुर्गतिं विष्णुप्रतिविष्णूनिवाङ्गिनम् ॥ २४ ॥ युग्मम् ॥ दाता भवेदनाशंसुर्विशुद्धाध्यवसायवान् । स्वःसौख्यादिकमाशंसुर्न पुनर्जायते तथा ॥ २५ ॥ तथाहि
वसन्तपुरमित्यस्ति पत्तनं श्रीनिकेतनम् । श्रमणोपासकस्तत्र यक्षाख्यः स्थूललक्षधीः ॥ २६ ॥ पवित्रयत्ययं वित्तं पात्र