________________
॥ २४४ ॥ विनाऽपि तत्तपस्तीव्रमस्मात्सर्वार्थसिद्धयः । यावजीवं भविष्यन्ति युष्माकं मत्प्रसादतः॥ २४५॥ मानुष्यऽप्यनिशं दिव्यभोगानां च समागमः । एवमावेद्य सद्योऽपि नागराजस्तिरोदधे ॥ २४६ ॥ अहो ! तवाद्भुतं सत्त्वमहो ! भक्तिरकृत्रिमा । अहो ! वचनचातुर्यमहो ! बुद्धिविधानता ॥ २४७ ॥ देवि ! त्वदीयबुद्ध्यैव बेडयेव सुकाष्ठया । दुस्तरोऽयं मया तेरे लीलया व्यसनाम्बुधिः॥२४८॥ कुतःप्राणाः कुतो राज्यमिदं कचोलकं कुतः। नागमिष्यः स्वयं मधु यदि त्वं पृष्ठतो मम ॥ २४९ ॥ सहस्रशोऽपि मे सन्तु पल्यः प्रौढनृपाङ्गजाः। परं तासु समग्रासु त्वमग्रमहिषी मम ॥ २५० ॥ इत्युपश्लोकितां कान्तां ततः कच्चोलकान्वितः। आकार्य राजसूः सैन्यमागम्य सुखमस्वपत् ॥ २५१॥ देवतावसरस्यान्तस्तन्निवेश्य दिनोदये । कुमारः स्वं प्रति स्थानं प्रतस्थानश्चमूवृतः॥ २५२ ॥ अवाप भुक्तिवेलायामेलापुरवनान्ययम् । कारयामास चावासान् सैन्यैस्तत्र यथोचितम् ॥ २५३ ॥ कृत्वा माध्याहिकीः स्नानदानपूजादिकाः क्रियाः । अयं महानसासन्नभोजनस्थानमागमत् ॥ २५४ ॥ भाषावेषादिना न्यक्षसदृक्षे युग्मजे इव । दृष्ट्वा द्वे मदने तत्र भृशं विस्मयते स्म सः॥२५५॥ द्विगुणां मम किं भक्तिमद्य निर्मातुमुद्यता । इयं द्विरूपतां भेजे निजविद्यानुभावतः |॥ २५६॥ यदि वा देवता काऽपि प्रतारणकृते मम । चक्रे मदनमञ्जर्यास्तुल्यं रूपान्तरं किमु ॥ २५७ ॥ दृष्टिभ्रमादहं किं वा द्वे पश्यामि द्विचन्द्रवत् । इति चिन्ताशताक्रान्तः कुमारः समजायत ॥ २५८ ॥ सूक्ष्मयाऽपि दृशा पश्यस्तत्त्वातवप्रवीणया । द्वयोस्तयोः स्त्रियोः सम्यग् नैव भेदं विवेद सः॥ २५९ ॥ ततः स्वपरिचर्यातस्तां निवार्य द्वयीमपि । स मावर्तत भुक्त्यादौ सुधीः केन प्रतार्यते ॥२६० ॥ जिनार्चावश्यकस्नानदानमानादिकां क्रियाम् । यां यामेका यथाकालं