________________
दानप्रदीपे ॥ १८५ ॥
सार्धमभज्यताशु ॥ ८३ ॥ आचम्य किञ्चित्परिभुक्तमुक्तभक्तः कथंचित्सचिवोऽप्युदस्थात् । स्वयं क्षिपन् खादिरचोचमास्ये श्रेष्ठी च तस्याप्यतिथेरदत्त ॥ ८४ ॥ दुश्चेष्टितं तस्य गृहस्य पश्यन् हृद्याकुलो विस्मयखेदहास्यैः । मन्त्री तमत्रापि तदन्वकार्षीत् कुर्वन्ति यज्ज्ञाः समयानुरूपम् ॥ ८५ ॥ स्वल्पेऽपि कुर्वन्नथ लभ्यदेये पदे पदे यं कलहं वणिग्भिः । बभ्राम विश्राममृतेऽपराह्नममात्ययुक्तः पुरि वातकीव ॥ ८६ ॥ गृहागतः सायमयं विशीर्णां शय्यां स्वकीयां कुथितां च कन्धाम् । तस्मै ददौ रङ्क इव स्वयं तु विनांहिशौचं स्वपिति स्म भूमौ ॥ ८७ ॥ तद्वित्तदुर्वृत्तवितर्कखट्टा कम्प्रत्वकन्था कुथितत्वदुःस्थम् । निद्रा सुमन्त्रं परिमुच्य दूरं जगाम मानिन्यपमानितेव ॥ ८८ ॥ इयं भवन्ती मम कोटियामा कथं त्रियामाऽपि समापनीया । इत्यर्तिभाजोऽस्य कुतोऽप्यकस्मादयं ध्वनिः कर्णपथे प्रतस्थे ॥ ८९ ॥ रे मुग्ध ! किं दुग्धमदित्स्यतास्मै त्वं युक्तिकुण्ठः किल वण्ठ ! सत्यम् । अयं त्वनौचित्यविधिस्तवायमवार्यत क्षीरघटोपमर्दात् ॥ ९० ॥ किमेतदित्युन्मिषचक्षुषोऽग्रे काऽप्यस्य दिव्या युवतिर्जगाम । वण्ठेऽपि तद्वृत्तमबुध्यमाने निन्ये कथंचित्स निशां सचिन्तः ॥ ९१ ॥ प्रातस्तमापृच्छय स भोगदेवधनीशितुर्धाम जगाम मन्त्री । सर्वाङ्गसनीकमनेक रुक्मकुम्भं विमानं तु दिवोऽवतीर्णम् ॥९२॥ द्वाःस्थस्तमभ्युस्थितिपीठदानाद्यौचित्यतः सत्कुरुते स्म तत्र । विवेकिनां वेश्मसु वर्तमाना भृत्या अपि स्युर्विलसद्विवेकाः ॥ ९३ ॥ तदा पदातिप्रकरेण युक्तमुत्तुङ्गदुतुङ्गतुरङ्गमस्थम् । अमन्दबन्दिस्तुतिजातमिष्वकोलाहलं राजकुलादुपेतम् ॥ ९४ ॥ दिव्याङ्गभोगैः सुभगं सुवर्णभूषाभिरुद्भासितदिक्कलापम् । प्रसृत्वरीभिः परितः प्रभाभिः स्वपुण्यराशीनिव दर्शयन्तम् ॥ ९५ ॥ देवेन्द्रमुर्व्यामिव भोगदेवं दृष्ट्वा स मन्त्री द्रुतमभ्ययासीत् । सोऽप्येनमायान्तमवेक्ष्य मङ्गवारुक्षदश्वादभिषस्वजे च ॥ ९६ ॥
द्वादशः प्रकाशः।
।। १८५ ।।