SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे 1182 11 तद्वनम् ॥ ७७ ॥ युग्मम् ॥ ते पूर्वाख्यातमैक्षन्त तत्र यक्षनिकेतनम् । हर्षाच्च यक्षमानर्चुः शुचयश्चम्पकादिभिः ॥ ७८ ॥ कापालिको विकालेऽथ गोकुलाच्चतुरश्छगान् । आनीय प्रगुणीच प्राज्यं पूजाद्युपस्करम् ॥ ७९ ॥ अयं तांश्चतुरश्छागैः समं स्वयमसिस्नपत् । कटाक्षैरन्तकस्येवाचर्चयच्च कुचन्दनैः ॥ ८० ॥ तानादिक्षच्च युष्माभिरेकैको मार्यतामजः । विधाय बलिमेतैस्तद्वारमुद्घाट्यते यथा ॥ ८१ ॥ अथानवेत्य तद्भावं स्वस्यानुद्भावं चापदम् | अविदित्वा चतुर्देवं यथादिष्टं व्यस्त्रयः ॥ ८२ ॥ श्रेष्ठिसूनुः पुनः पुण्यसंपन्नस्तन्न निर्ममे । तत्कालस्फुरितापार करुणापरिणामतः ॥ ८३ ॥ प्रज्ञप्तोऽपि पुनस्तेन स मेने नैव तद्वचः । महान्तो हि परप्राणान् स्वप्राणानिव मन्वते ॥ ८४ ॥ ततः स्वमन्त्रसिद्ध्यै तांश्चलितांछागघाततः । पापी व्यापीपदद्योगी धिगहो ! कूटपाटवम् ॥ ८५ ॥ तदुत्तमाङ्गपद्मश्च पूजयामास देवताम् । देवा दुष्टा हि सन्तुष्टा जायन्ते तादृशार्चया ॥ ८६ ॥ प्रसह्याथ स्वयं हन्तुमुद्येमे स यमानुजः । मिषं विनाऽपि तं शङ्खं किमकृत्यं दुरात्मनाम् ॥ ८७ ॥ अस्मिंश्चावसरे यक्षः प्रत्यक्षस्तमभाषत । रे रे निकृष्ट ! पापिष्ट ! किं दुष्टमनुतिष्ठसि ॥ ८८ ॥ यद्येनं छागघातेनाछलितं घातयिष्यसि । तदा ध्रुवं भवानेव न भविष्यति सम्प्रति ॥ ८९ ॥ ततः कापालिकेनायं तत्यजे भीतचेतसा । व्याघ्रेणेव मृगः सिंहनादश्रवणभीरुणा ॥ ९० ॥ हा वयस्याः ! गुणैः शस्याः सर्वस्यापि प्रियङ्कराः । कथं नीता दशामेतां योगिनाऽनेन पापिना ॥ ९१ ॥ विना वः कथमेकाकी वर्त्म गन्ताऽस्मि दुर्गमम् । कथं वा गमयिष्यामि कालं शोकेन विक्लवः ॥ ९२ ॥ इत्यमन्दतमाक्रन्दं रोदितश्वापदत्रजः । पलायत ततः शङ्खः साक्षादिव यमालयात् ॥ ९३ ॥ पुनर्जन्मानमात्मानं मन्वानः काननात्यये । स्मरन्निजवयस्यानां कञ्चिद्रामं जगाम सः ॥ ९४ ॥ शनेवाय मस्तोक शोका तृतीयः प्रकाशः । ॥ ४८ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy