________________
तातडून विक्लवः । तदौर्द्धदेहिक चक्रे तत्र द्वित्रदिनी स्थितः ॥ ९५॥ कथं स्वमित्रपित्रादिपौराणां साम्प्रतं पुरे । गत्वा।
प्रदर्शयिष्यामि मुखं वक्ष्यामि वा किमु ॥९६ ॥ इत्यामृश्यायमन्यस्यां दिशि प्रास्थित दुःस्थितः। हिया महान्तः शङ्कन्ते स्तोकेऽप्यनुचिते यतः॥९७॥ अथ संयममादित्सुर्गच्छन् सद्गुरुसंनिधौ। सुमेघः श्रावकस्तस्य संजग्मे भाग्यतः पथि॥९८॥ ४ तयोः प्रत्यहमालापा मार्गलाघवहेतवः । प्रावर्तन्त मिथः स्नेहभूरुहस्याङ्करा इव ॥ ९९ ॥ अचिरादप्यभूत्प्रीतिस्तयोर्बान्धवयोरिव । सुसाधा दुनिरोधा च मैत्री शुद्धात्मनां यतः॥ १०॥ श्राद्धोऽभ्यधात्तमन्येद्यर्विषादीव किमीक्ष्यसे । न चेदवाच्यमत्यन्तं तदा वद मदग्रतः ॥ १०१॥ अथाख्यदश्रुपूर्णाक्षः शङ्खस्तद्वृत्तमादितः । क्षीयते हि क्षणं दुःखं सुहृदादे-18| निवेदितम् ॥ १०२॥ तन्निशम्य सुमेघोऽपि विस्मितस्तमवोचत । अहो ! तव मतिः प्राणिपरित्राणपरायणा ॥ १०३ ॥ अहो ! ते साहसं प्राणसंदेहेऽप्यभिदेलिमम् । पवित्रेण चरित्रेण तव चित्रीयते न कः॥ १०४ ॥ न शोकः सुहृदां कर्तुमुचितस्ते विपश्चितः। यतस्तैः प्राणिघातेन स्वयमापदुदैर्यत ॥ १०५ ॥ जीवहिंसा हि सर्वासामापदामाद्यमास्पदम् । सुखानामप्यशेषाणां क्षये प्रत्यक्षराक्षसी ॥१०६॥ पङ्गुता न्यङ्गता कुष्ठं कुणिता बहुधापदः । प्रत्यक्षं लक्ष्यतामत्र हिंसाविषलताफलम् ॥ १०७ ॥ अहिंसा खलु संसारपारावारमहातरी । निःशेषदुःखदावाग्नौ नव्यकादम्बिनीयते ॥ १०८ ॥ फलितोऽत्रैव ते जीवाभयदानसुरद्रुमः । व्यसनाद्यदनायासमीदृशादप्यमुच्यथाः ॥ १०९ ॥ प्रधानं सर्वदानानां जीवदानं विदुर्बुधाः।18 प्रतिभाति यतः सर्वं सुन्दरं सति जीविते ॥ ११०॥ नाहारः सरसो न गीतललितं न स्मेरनेत्रास्मितं न स्वर्णाभरणं न । हारि शयनं स्नानं न कोष्णाम्बुभिः । नो चीरं रुचिरं न चर्चनविधिर्न प्राज्यराज्यं तथा प्राणान्ते हि सुखाकरोत्यसुमतः
TUSHUSHKAKO RSA