SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१॥ विजित्य मोहं दृढधर्मविद्यया परामुपायंसत ये जयश्रियम् । तपागणस्य प्रभवो जयन्ति ते गुरूत्तमाः श्रीवरसोमसुन्दराः ॥ ६ ॥ व्यधायि यैः शास्त्रसुधार्द्रताऽश्मनामस्मादृशां सौवगवीप्रयोगतः । शक्ता भवाधःकरणे कलाभृतः शुभाय ते श्रीजिनसुन्दराः सताम् ॥ ६ ॥ आरुह्य यन्नामरथे यथेप्सितं स्वर्भूर्भुवो मण्डलकेलिगोचरे । सुखेन खेलन्त्यखिलार्थसिद्धयः सर्वेऽप्यमी नः परमेष्ठिनः श्रिये ॥ ७ ॥ इत्यर्हणीयस्तवभावमङ्गलं विधाय जैनागमजातवेदसः । नानार्थतेजः परिगृह्य दीपये दानप्रदीपं जिनशासनालये ॥ ८ ॥ धर्मः समग्रामरमानवश्रियां परं निदानं शिवसंपदामपि । तदर्थिभिस्तेन स एव सेव्यतां न यद्विनोपायमुपेयसंभवः ॥ ९ ॥ अभिदधे बुधेश्वरैर्दानं च शीलं च तपोऽथ भावना । तत्रापि दानं खलु मुख्यमिष्यते शेषत्रयस्यापि हि तत्कृता स्थितिः ॥ १० ॥ तथाहि ज्ञानाभयोपग्रह दानभेदतस्त्रिधा हि दानं जगदुर्जिनेश्वराः । न ज्ञानदानं च विनाऽत्र कस्यचित्स्वल्पोऽपि धर्मः प्रथमः प्रकाशः । ॥ १॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy