SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ अथ प्रशस्तिः ॥ प्रशस्तिः ॥ ॥२०॥ सिद्ध्यै श्रीवीरभर्तुः सकलगणभृतामग्रिमो गौतमो वः, सिद्धान्तखर्गिसिन्धोस्तुहिनगिरिरथो पञ्चमः श्री सुधर्मा । जम्बूरम्बूपमानस्तदनु शमवने दिद्युतेऽथ क्रमेण, श्रीवज्रस्वामिनामा गुरुरवगणितखगिरिगौरवेण ॥१॥ विख्यातस्तस्य शाखातिलकमविकलोल्लासिसंवेगरङ्गः, सूरिः शोभामदभ्रां जिनमतमनयच्छ्रीजगच्चन्द्रनामा । खच्छः श्रीचन्द्रगच्छं जगदतिशयिभिर्दुस्तपैस्तैस्तपोभिः, क्षोणौ ख्यातिं तपेति क्षितिपतिजनितां प्रापयामासिवान् यः॥२॥ श्रीमान् देवेन्द्रसूरिः प्रसरदुरुमहा भासयामास भाखां-स्तत्पप्राच्यशैलं दिशि दिशि कमलोलासनेऽलंभविष्णुः । अद्यापि ग्रन्थसार्थः करनिकर इव प्रस्फुरनिर्मिमीते, चित्रं यस्य प्रदीपः शिवपुरपदवीः सर्वतः सुप्रकाशाः ॥३॥ सम्यक्त्वं प्रतिपाद्य गोमुखसुरं शत्रुञ्जये स्थापय-निन्ये प्रौढिमयं ततो जिनमतं श्रीधर्मघोषः प्रभुः । विद्योन्मादिकुवादिना मदगदापस्मारनिःसारणे, यो धन्वन्तरितां दधार बहुधा सिद्धीर्दधानोऽद्धताः ॥ ४॥ श्रीसोमप्रभसूरयः शुशुभिरे शोभाप्रदास्तत्पदे, सूत्रार्थोभयशालिनी प्रतिकलं कण्ठे लुठन्तीतमा । मुक्तावल्लिरिवोज्ज्वला सुभगतामेकादशाङ्गी तथा, यान्निन्ये जगदुत्तमत्वकमला ववे स्वयं लागू यथा ॥५॥ तत्पट्टैकललामसोमतिलकः सूरिर्बभासे ततो, धाता नूनविचित्रशास्त्ररचने सैद्धान्तिकाग्रेसरः । एकच्छत्रमसूत्रयत्रिजगति श्रीधर्मभूमीभुजः, साम्राज्यं दुरपोहमोहकुनृपं निर्जित्य यो धैर्यभूः ॥ ६॥ तेजःश्रीवसतिस्तपागणसमुद्भासैकनिष्णस्ततो, दीपोऽदीप्यत देवसुन्दरगुरुः श्रेयोदशाभासुरः । ||॥२०॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy