SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ स्वमानसे ॥ ३४३ ॥ तस्मिन् सुखं समासीनः स्वेच्छया वियदङ्गणे । रेमे विमानमारूढो विद्याधर इवान्वहम् ॥ ३४४ ॥ त्रिभिर्विशेषकम् ॥ अन्यदा संमदाद्भूपः शिल्पिराजं जजल्प तम् । न मे मञ्चस्थितिः शोभाहेतुः किन्तु त्रपाकरी ॥ ३४५॥ सकलास्त्वयि चानल्पाः सन्ति शिल्पकलाः किल । रत्नजातिन सा काऽपि रोहणे या हि नाप्यते ॥ ३४६ ॥ तत्पल्यङ्कवदाकाशप्रसर्पणपरायणम् । मह्यं निर्माय निर्माहि करिरत्नं प्रयत्नतः॥ ३४७॥ ततो जजल्प तं शिल्पी देव ! दिव्यममूदृशम् । दृश्यते दारु नारण्ये येन निर्मीयते गजः॥ ३४८॥ देव ! भाग्यभरादेव दृश्यते दारु तादृशम् । वने वने किमु भवेत् सुप्रापः कल्पपादपः॥ ३४९ ॥ पुनस्तं पार्थिवः स्वार्थनिष्टःप्रोचे तथाऽपि तत् । गत्वा बहुप्रकारेषु कान्तारेषु गवे|षय ॥ ३५० ॥ सार्थे यथेप्सितं वित्तं गृहाण मम कोशतः । साहायकाय साकं च ममाकारय सेवकान् ॥ ३५१ ॥ भरितानमितास्वाद्यखाद्यभोज्यादिवस्तुभिः । आदत्स्व सार्धमध्वन्यनन्दनान स्यन्दनानिमान् ॥ ३५२ ॥ इति प्रसादमस्तोकमालोक्य नृपतेवेचः। प्रपद्यादाय सामग्री स जगाम वनं सुधीः॥ ३५३ ॥ पत्तिवारपरीवारश्चचारायमनारतम् । वनान्तरे परं दारु प्राप कल्पद्रुवन्न तत् ॥ ३५४ ॥ वनान्तः पश्यतस्तस्य षण्मासा अत्ययासिषुः । अन्येद्युः स महावृक्षं दिव्यं मातादृक्षमैक्षत ॥ ३५५ ॥ प्रपूज्य विधना धूपकर्पूरकुसुमादिभिः। चिच्छेद तमविच्छेदमयं चिन्तामिव प्रभोः॥ ३५६ ॥ अथैत्य स गृहे तेन दलिकेन महोन्नतम् । निर्मिमीते स्म हस्तीन्द्रमिन्द्रद्विपमिवापरम् ॥ ३५७ ॥ राज्ञस्तमर्पयामास प्रशस्ते दिवसे च सः। भृशं जहर्ष राजाऽपि वीक्ष्य तं न्यक्षलक्षणम् ॥ ३५८ ॥ ततश्चिन्ताधिकं वित्तं तस्मै दत्ते स्म भूपतिः। लाघवं नोचितं नेतुं मूल्येनाद्भुतवस्तु यत् ॥ ३५९ ॥ अथ तं प्रौढमारूढः करिणं व्योमचारिणम् । ऐरावणाधिरूढस्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy