SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे शोभां जम्भभिदो भजन ॥ ३६० ॥ पश्यन् जनपदग्रामनगरादिमनोहराम् । वसुधां वसुधाधीशः कं न चित्रीयते स्म सः षष्ठः ॥ ३६१ ॥ युग्मम् ॥ तेन विद्युदिवापत्य सहसा स विहायसा । शिक्षयामास दुःशिक्षानपि विद्वेषिणः क्षणात् ॥ ३६२॥ प्रकाशः। तमारूढमति प्रौढप्रभं स्वैरविहारिणम् । दुरालोकं तमालोक्य सुपर्णस्थमिवाच्युतम् ॥ ३६३ ॥ सकलाः प्रतिभूपाला भृशमूर्जस्वला अपि । तस्याज्ञां लालयामासुः स्वमौलौ किंकरा इव ॥ ३६४ ॥ युग्मम् ॥ एवं स बुभुजे राज्यमेकच्छत्रपवित्रि|तम् । किं न संपद्यते पुंसां पूर्वसञ्चितपुण्यतः॥ ३६५ ॥ अन्यदा नगरोद्यानममानज्ञानभूषिताः। भूषयामासिवांसः श्रीधमघोषगुरूत्तमाः ॥३६६॥राज्ञे व्यजिज्ञपद्गुर्वागमनं वनपालकः । तेन नव्याम्बुदेनेव शिखीव मुमुदे नृपः॥३६७ ॥ पारि-13 तोषिकदानेन क्षितीन्द्रस्तमतूतुषत् । मुह्यन्ति क्वचिदौचित्ये कृत्ये किमु विपश्चितः ॥३६८॥ ततः समस्तसामन्तपौरलोकपरिप्कृतः । सद्यः प्रोद्यत्तमानन्दस्तदुद्यानमवाप सः॥ ३६९ ॥ प्रणम्य विधिना सूरीन् दूरीकृतकुकर्मणः। तदुपान्ते नरेन्द्राद्या निषेदुर्भक्तिमेदुराः ॥ ३७० ॥ पुरस्तेषामशेषांहस्तमोनाशनभानुभा । देशना निर्ममे शर्मकरी सूरिपुरन्दरैः॥ ३७१ ॥ तां | निपीय मनोहत्य परां संमदसंपदम् । प्रपेदिरे नरेन्द्राद्याश्चकोराश्चन्द्रिकामिव ॥ ३७२ ॥ प्रस्तावं प्राप्य भूपस्तानूचेऽथ विनयाञ्चितः। विश्वविश्वदृशां सर्व सुदर्श हि भवादृशाम् ॥ ३७३ ॥ तदादिशत दादिदिव्यवस्तुत्रयान्विता । राज्यश्रीरियमासादि केन सत्कर्मणा मया ॥ ३७४ ॥ ततो गिरं गुरुवरा जगदुर्जगदर्चिताः । सर्वं शुभासुभं भूप! पूर्वकम गामुकम् ॥३७५॥ दिव्यवस्तुत्रयोपेतं साम्राज्यमिदमूर्जितम् । त्वयाऽर्जितं यथा राजन् ! सकर्णाकर्ण्यतां तथा ॥३७६ ॥ बभूव भरतक्षोणीस्मिताक्षीस्वर्णकुण्डलम् । अभङ्गमङ्गलश्रीणामालयो मङ्गलं पुरम् ॥ ३७७ ॥ प्रणम्रानेकभूपालमौलि ॥२६॥ 6
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy