________________
लालितशासनः। पृथ्वीपालः क्षमापालः पालयामास तत्पुरम् ॥ ३७८॥ प्रत्यर्थिपार्थिवस्त्रैणनयनाम्बुनवाम्बुदः चित्रं प्रवर्द्धयामास तत्प्रतापहुताशनम् ॥ ३७९ ॥ श्रेष्ठी लक्ष्मीधरस्तत्र बभूव पुरुषोत्तमः। सुदर्शनधरः श्रीमान् लक्ष्मीधर इवापरः॥ ३८० ॥ न केवलं भूधवराज्यकार्यधुरोद्धृतौ सर्वधुरीणतां यः। दधार शुद्धाहतधर्मसम्यगाराधनायामपि धीनिधानम् ॥ ३८१॥ तत्रान्यदा पुरे प्राप धर्मसारगुरूत्तमः। श्रुतपारङ्गमः सम्यग्धर्मारामघनागमः ॥ ३८२ ॥ पृथ्वीपालनृपः पौरलोको लक्ष्मीधरस्तथा । अहंपूर्विकयागत्य नमस्यामास तं गुरुम् ॥ ३८३ ॥ विहिताऽशेषसंशीतिनाशनां धर्मदेशनाम् । गुरोराकर्णयामासुरुत्को भूधनादयः॥ ३८४ ॥ अथ कम्बलिकामात्रमासनं वीक्ष्य खिन्नवान् । लक्ष्मीधरः स्फुरद्भक्तिसुभगं भावुकाशयः॥ ३८५ ॥ निजचित्तमिवात्युच्चं स्वपुण्यमिव निश्चलम् । स्वानन्दमिव विस्तीर्णमानाय्य स्वनिकाय्यतः I॥ ३८६॥ श्रीगुरोःपुरतः पट्टमुपढौक्य प्रमोदतः। तत्रासनार्थमत्यर्थमर्थयामासिवानिमम् ॥ ३८७ ॥ त्रिभिर्विशेषकम् ॥ यूयं त्रिजगतीपूज्या ज्यायांसो गुणसंपदा । ततो निम्नासने नैव युक्तं युष्माकमासनम् ॥ ३८८ ॥ सिंहासने समासीनाः शोभन्ते हि भवादृशाः। युक्तो हि जात्यरत्नस्य निवेशः स्वर्णभूषणे ॥३८९ ॥ ततः प्रसद्य पट्टेऽस्मिन्नास्यतां नाश्यतां च मे । दुरितं यन्महात्मानः परानुग्रहसाग्रहाः ॥ ३९॥ अथ श्रेष्ठिनमाचष्ट गुरुप्रष्ठः पटिष्टवाक् । इदं विदम्भया भक्त्या विज्ञ! विज्ञप्यते त्वया ॥ ३९१ ॥ परं दारुमयं जन्तुदयायै शयनासनम् । वर्षास्वेव मुमुक्षूणामुपादिक्षन् जिनेश्वराः ॥ ३९२ ॥ अष्टासु परिशिष्टेषु मासेषु पुनरौर्णिकम् । अमूढलक्षाः सर्वज्ञा भाषन्ते हि हितावहम् ॥ ३९३ ॥न चोच्चासनमात्रेण तुङ्गता सङ्गता नृणाम् । अन्तरङ्गगुणश्रीभिरविनाभाविनी हि सा ॥ ३९४ ॥ वर्षाकालं विना प्राज्ञा ये