SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ६१ ॥ नदुर्मतिः । श्राद्धः कश्चन चौर्यार्थी शुश्रावोक्तिमिमां तयोः ॥ १७ ॥ दध्यौ च हा ! दुरात्माऽयं निर्माता मे सधर्मणः । प्रातः श्रीवज्रकर्णस्य बन्धनाद्या विडम्बनाः ॥ १८ ॥ इदानीमेव तद्गत्वा तं नृपं ज्ञापयाम्यदः । यथा निश्येव निर्विघ्नं स प्रयाति निजं पुरम् ॥ १९ ॥ ततः स चौर्यमुत्सृज्य तदैव तमजिज्ञपत् । सधर्मा ह्यधिको धर्मवतां बन्धुधनादितः ॥ २० ॥ तं सत्कृत्यामितैर्वित्तैर्वज्र कर्णोऽथ तन्निशि । तद्गुणैरञ्जितस्वान्तः प्रतस्थे स्वपुरं प्रति ॥ २१ ॥ क्षेमेण तत्र स प्राप्तो दुर्गान्तः सकलं जनम् । निवेश्य स्नेहधान्यादिसामग्री निरमापयत् ॥ २२ ॥ तच्चाकर्ण्यानवच्छिन्नप्रयाणः पृतनावृतः । सिंहोदरो दशपुरं रुरोध क्रोधदुर्धरः ॥ २३ ॥ तदा च वनवासस्थः परोपकरणत्रतः । रामस्तत्रागमत्सीतासौमित्रिपरिवारितः ॥ २४ ॥ व्यषीदच्चापदं श्रुत्वा वज्रकर्णसधर्मणः । स किं धर्मा न मर्माविद् यस्य बाधा सधर्मणाम् ॥ २५ ॥ आदिदेश स सौमित्रिं सद्यः सिंहोदरग्रहे । कः संघर्मा सधर्मार्तिहृतौ चिरयति क्षमः ॥ २६ ॥ सोऽपि तं समरे बद्धा श्रीरामाय समार्पिर्पत् । वज्रकर्णस्तदाकर्ण्य द्रुतं तत्रागमन्मुदा ॥ २७ ॥ वज्रकर्णाय राज्यार्द्ध प्रदाप्य रघुपुङ्गवः । यावज्जीवमवन्तीन्द्रं तदाज्ञां प्रत्यपीपदत् ॥ २८ ॥ अहो ! साधर्मिके भक्तिः श्रीरामस्य महीयसी । अदृष्टमप्यमुं यस्मादकस्मादित्युपाकृत ॥ २९ ॥ वैधुर्ये यः सधर्माणमुदास्ते शक्तिमानपि । धर्म धर्माधिराजं च दुर्बुद्धिः स विराध्यति ॥ ३० ॥ यः पुनर्विपदं स्फातपातकः पातयत्यमुम् । अनन्ते स भवावर्ते पतिता विततासुखे ॥ ३१ ॥ बन्धुमानी सधर्मातः सधर्माणं यथाविधि । यथाशक्त्युपकुर्वीत राया कायादिनाऽपि च ॥ ३२ ॥ येनोपगृह्यते देहसाधनत्वेन संयमः । तदेवाशनपानादिमुनीन्द्राय तु दीयते ॥ ३३ ॥ नहि रत्नसुवर्णादिप्रदानं साधु साधये । रागद्वेषादयो दोषाः प्रोन्मिषन्ति ततो यतः ॥ ३४ ॥ यो धर्मविध्वं चतुर्थः प्रकाश : ॥ ६२ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy