SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ** ***** ॥अथ चतुर्थः प्रकाशः॥ श्रीयुगादिप्रभोः पौत्रश्रेयांसः श्रेयसेऽस्तु वः। पात्रदानव्यवस्थेयं पप्रथे यदुपक्रमम् ॥१॥ धर्मोपष्टम्भदानस्य स्वरूपमथ कथ्यते । येनोपष्टभ्यते धर्मः सम्यक् स्वस्य परस्य च ॥२॥ जघन्यमध्यमोत्कृष्टं पात्रं तत्र त्रिधा विदुः । सम्यक्त्वमात्रवान् देशसर्वाभ्यां विरताविति ॥ ३॥ सम्यक्त्वादिगुणोपेताः पूज्याः श्राद्धा अपि स्फुटम् । त एव बन्धवः सम्यक सधर्मत्वेन यत्सताम् ॥४॥ धर्मस्नेहं वहन्नन्तर्भोजनाच्छादनादिना । सम्यक्कुर्वीत बन्धूनामिव भक्तिं सधर्मणाम् ॥५॥ श्रूयते भरतश्चक्री चक्रे भक्तिं सधर्मणाम् । सोदराणामिवाहारैः पीयूपरसपाकिमैः ॥६॥ दण्डवीर्यनृपस्तस्य वंश्यः शस्यः स कस्य न । बुभुजे भोजयित्वा यः प्रत्यहं कोटिमास्तिकान् ॥ ७॥ विधुरं च सधर्माणं सुधीबन्धुमिवोद्धरेत् । समुद्धरत्नमुं स्वान्यधर्ममुद्धरते यतः॥८॥ स्तुत्यः कुमारभूपालः सर्वकालमबालधीः । प्रत्यब्दमास्तिकोद्धारे द्रव्यकोटि न्ययुत यः ९॥ महतां ग्रामणी म श्रीरामः स्तूयते न कैः । उद्दधार सुधर्मा यः सधर्माणमरण्यगः ॥ १०॥ पुरा दशपुरस्वामी ४ वज्रकर्णनरेश्वरः । मृगयार्थ वने प्राप्तो मुनिं जैनमवन्दत ॥ ११॥ तस्योपदेशतः सम्यकू श्राद्धधर्ममवाप सः । देवं गुरुं च मुक्त्वाऽन्यं न नमामीत्यभिग्रही ॥१२॥ ततः स मुद्रिकारत्नजिना नतिकैतवात् । पुरासेव्यमवन्तीश सिंहोदरमसेवत ॥ १३ ॥ अन्येद्युः पिशुनो कोऽपि तं प्रपञ्चं नृपं जगौ । अदंश्यमिव सर्पस्य नावाच्यं किञ्चिदस्य च ॥ १४ ॥ ततोऽन्तर्मनसं वज्रकर्णाय दुह्यति स्म सः। निशि चिन्ताभराक्रान्तस्वान्तश्चान्तःपुरं ययौ ॥ १५॥ पृष्टः स विज्ञया | राज्या चिन्ताहेतुमवोचत । न किञ्चिद्गोपनीयं हि कामिनां कामिनी प्रति ॥१६॥ तदानीं तत्र चायातः कुतोऽप्युत्प ***** * *
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy