SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ६० ॥ विघातहेतुं राज्यं विजानन्नपि न त्यजामि ॥ ४८२ ॥ धन्या दयेकरतयो यतयस्त एव ये सर्वजन्तुवधतः सततं निवृत्ताः । निष्पीड्यमानतनवोऽपि दुरात्मसत्त्वैरन्ते मनागपि न जातु भजन्ति कोपम् ॥ ४८३ || आत्मन्नमीषु विषयेषु सुखाभिलाषी निःसंख्यजन्तुवधहेतुषु रज्यसे किम् । नो वेत्स्यमीभिरमितं भवताऽनुभूतं दुःखं भवेषु नरकादिषु लक्षशोsपि ॥ ४८४ ॥ प्रपालितं पापमयैरुपायैरिदं शरीरं सफलं तदीयम् । शरारुणानेन महोदयश्रीफलं तपोऽतप्यत दुस्तपं यैः ॥ ४८५ ॥ इत्यन्तः स्फुरदुत्तरङ्गितशुभध्यानाम्बुधारोत्करैर्निधौ ताखिलघातिकश्मलमलः श्रीकेवलं लब्धवान् । तत्कालं यतिवेषमेष भरतश्चक्रीव देवार्पितं भेजे बोधितभव्यजीवनिवहो मुक्तिं ययौ च क्रमात् ॥ ४८६ ॥ साश्चर्यमित्यभयदानमयावदातैराकर्ण्य कर्णसुखकृज्जयराजवृत्तम् । भव्याः प्रदातुमभयं सततं यतध्वं येनाभयं पदमविघ्नमुपेथ सद्यः ॥ ४८७ ॥ ॥ इति श्रीतपागच्छनायक श्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरि पट्टालङ्करणश्री सोमसुन्दर सूरिशिष्यश्रीमहोपाध्यायश्री चारित्ररलगणिविरचिते दानाङ्के श्रीदानप्रदीपनानि ग्रन्थेऽभयदानफलप्रकाशनस्तृतीयः प्रकाशः ॥ ग्रन्थाग्रम् ५०४ अक्षर १५ ॥ श्रीरस्तु ॥ 1 तृतीयः प्रकाशः । ॥ ६० ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy