SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अतः साम्प्रतमस्माभिरपि जीवदयाव्रतम् । प्रपेदे संपदो येन संपद्यन्ते पदे पदे ॥ ४६७ ॥ अमुं चाकर्ण्य वृत्तान्तं नितान्तं हितमात्मनः । प्रभूताः प्रावृतन् जीवाभयदानविधौ जनाः ॥ ४६८ ॥ नृपश्च सुगुरोः पार्श्वे द्वादशव्रतसुन्दरम् । अमात्यादियुतः शुद्धं श्राद्धधर्ममुपाददे ॥ ४६९ ॥ अथायं घोषयामास निजनीवृति सर्वतः। घातयिष्यति यः सत्त्वं दण्ड्यः सर्वस्वमप्यसौ ॥ ४७० ॥ चैत्यानि दत्तशैत्यानि दृशां सम्यग्दृशामसौ। विमानितविमानानि निर्मायं निरमीमपत् ॥४७१॥ स स्वर्णादिमयीजैनीः प्रतिमा निरमापयत् । महानन्दसुखश्रीणामिवाकारणदूतिकाः॥ ४७२ ॥ दीनादीनामयं दानमनिदानमदान्मुदा।न याञ्चालाघवं भेजुः पुनराजन्म ते यथा॥४७३॥ कृपापुण्यार्जितं राज्यं भुञ्जानःप्राज्यमूर्जितम् । समाः सहस्रशः सम्यग्धर्ममाराध्यदित्ययम् ॥ ४७४ ॥ अन्याः पूर्ववत्प्रौढ्या निविष्टः सिंहविष्टरे । विषमं जन्मिनां कर्म परीणाम परामृशन् ॥ ४७५ ॥ राज्यं प्राज्यमपि त्याज्यं विषभोज्यमिवामृशन् । सभामभाषतोत्तुङ्गवैराग्येणोत्तरङ्गितः ॥ ४७६ ॥ भो भो जनाः ! पश्यत तुच्छमायुरमी च भोगा विरसावसानाः । विभूतयोऽपि क्षणदृष्टनष्टा रोगाद्यपायप्रचुरश्च कायः ॥ ४७७ ॥ स्वार्थैकलुब्धः स्वजनादिवर्गः प्रभूतविघ्ना स्वहितार्थसिद्धिः। मृत्युनृणां मस्तकदत्तहस्तो भोक्तव्यमेव स्वकृतं । च कर्म ॥ ४७८ ॥ तदप्यविद्यामदिरोन्मदिष्णुर्जनः प्रमत्तः स्वहितेऽपि धर्मे । स्वस्याहिते जन्तुविधातनाद्ये पापे त्वहंपू|र्विकया प्रवृत्तः ॥ ४७९ ॥ हहा ! जना नारकतिर्यगादिदुःखान्यसंख्यान्यनवेक्षमाणाः । अनेकधा जीववधाद्यधर्म वितन्वते स्वल्पसुखाय मूर्खाः॥४८० ॥ आत्मानभीष्टां कथमिष्टधर्मा परस्य हिंसां विदधीत धीमान् । स्वस्य प्रियं यत्क्रियते परस्य तदेव धर्मस्य हि जीवितव्यम् ॥ ४८१॥ किं वा परं प्रत्युपदेशनेन ममैव हा मोहविमोहितत्वम् । यजन्तुसङ्घात ज्यं प्राज्यमपि त्या अन्याः पूर्ववत्प्रौढ्या नाण्यार्जितं राज्यं भुञ्जान पादानामयं दानम-3 ACANCRECACANCARNA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy