SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ - देहिकम् । संभूय बन्धुभिवृद्धः पदे तस्य न्यवेश्यत ॥ ८२॥ न परं गृहभारं स बभार स्फारवैभवः । सर्वाङ्गीणां जिनोपज्ञधर्मकर्मधुरामपि ॥ ८३ ॥ अन्यदा सदनासन्नं स्फुटस्फाटिकभित्तिकम् । शातकुम्भमयस्तम्भभारपट्टप्रतिष्ठितम् ॥४॥ प्रवेशे रत्ननिवृत्ततोरणत्रयशालितम् । विमानितविमानाभिश्चित्रशालाभिरद्भुतम् ॥ ८५॥ क्वचित्सारकणाधारकोष्ठागारमनोहरम् । वचन स्वर्णदुर्वर्णरत्नप्रकरसंकुलम् ॥८६॥ क्वचिच्चारुदुकूलादिसिचयोच्चयरोचितम् । क्वचिद्राजततावादिविचित्रामत्रमण्डितम् ॥ ८७॥ दिव्यसौवर्णपल्यङ्कभद्रासनसमन्वितैः। मणिस्वर्णमयापारसारालङ्कारपूरितैः॥८८॥ मुक्तावचूलरोचिष्णुचन्द्रोदयविरोचिभिः। सुगन्ध्युद्धरधूपेन विष्वग् मघमघायितैः॥८९॥ लक्ष्म्या इव निवासाहेश्चतुर्भिर्वासवेश्मभिः । अलङ्कृतान्तरं नित्यप्रदीप्रमणिदीपकैः ॥९० ॥ अदृष्टपूर्वमालोक्य प्रातर्धवलमन्दिरम् । जज्ञे पद्माकरः |स्फारविस्मयस्मेरमानसः॥ ९१ ॥ अष्टभिः कुलकम् ॥ तन्निशम्य नृपोऽप्येत्य निरूप्यापारपौरयुक् । बभूव विस्मयावेश-1 वशोत्फुल्लविलोचनः॥ ९२॥ किमिन्द्रजालं किमु वा मतिभ्रमः कोऽप्यत्र दृग्बन्धमुत व्यधत्त किम् । विजृम्भितं वा| किमिदं सुपर्वणां किं वा विमानं त्रिदिवादवातरत् ॥ ९३ ॥ इत्यागृहपरे पौरपद्माकरयुते नृपे । दिव्या वाणी तदा प्रादुबभूव नभसि स्फुटा ॥९४ ॥ वत्स ! पद्माकर ! स्वच्छवात्सल्यरसशालिना । जनकेन तवागण्यपुण्यप्रेरितचेतसा ॥१५॥ चक्रे तवायमावासो देवभूयमुपेयुषा । भुङ्ग भोगानिह वैरं सर्वकालं सुपर्ववत् ॥९६॥ युग्मम् ॥ ततश्चित्रीयितश्चित्ते | मुदितो मेदिनीपतिः। तस्य तत्र निवासायानुज्ञां विज्ञाग्रणीर्ददौ ॥ ९७ ॥ अहो ! धर्मस्य महिमा महीयानिति विस्मितः। पद्माकरस्तुतिपरः सपौरः प्रत्यगान्नृपः॥९८ ॥ ततः स वासगेहेषु निदधौ स्ववधूः क्रमात् । तत्र ताभिः समं भोगान्
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy