________________
दानप्रदीपे ॥ ७७ ॥
महाभोगानभुक्त च ॥ ९९ ॥ तस्यान्यत्रगतस्यापि तादृशं दिव्यशक्तितः । तादृक्शय्यादियुक् सौधं सद्योऽपि समपद्यत
॥ १०० ॥ यतः ―
"नवं नवं सद्म नवा नवा रतिर्नवं नवं शर्म नवा नवा धृतिः ।
नवा नवा कान्तिरहो ! नवा नवा प्रभुत्वलक्ष्मीः सुकृतप्रभावतः ॥ १ ॥”
सुतास्तस्य चतुर्वर्गसंसर्गसुभगात्मकाः । जाताश्चतसृणां तासां चत्वारश्चतुराशयाः ॥ १०१ ॥ धर्मकल्पदुराराधि ध्रुवं सम्यक् पुराऽमुना । संपद्यन्तेऽस्य सद्योऽपि यतो दुष्प्रापसंपदः ॥ १०२ ॥ असौ पद्माकरः स्फारसुकृतस्याकरः खलु । नरस्यापि सुरस्येव यस्याभीप्सितसिद्धयः ॥ १०३ ॥ सर्वेषामपि लोकानामिति जिह्वाग्रमण्डपे । ताण्डवाडम्बरं तस्य व्यत - नोत्कीर्तिनर्तकी ॥ १०४ ॥ त्रिभिर्विशेषकमर्थतः । अन्येद्युः समवासार्षीन्निस्तुपज्ञानभूषितः । श्रीमानमरसूरीन्द्रस्तत्र चारित्रिसंयुतः ॥ १०५ ॥ पौरलोकपरीवारः शेखरः स नरेश्वरः । गुरुं नन्तुमगात्पद्माकरोऽपि सपरिच्छदः ॥ १०६ ॥ त्रिः परीय गुरुं भक्त्या प्रणेमुर्भूधवादयः । सोऽपि धर्माशिषा श्रेयः पुषा तान् पर्यतूतुषत् ॥ १०७ ॥ अथारेभे नृपादीनां पुरः श्रीगु रुपुङ्गवः । प्रगुणीकृतसंवेगवासनां धर्मदेशनाम् ॥ १०८ ॥ तथाहि
द्वीपमिव प्राप्य दुष्प्रापं मानुषं भवम् । पुण्यरलान्युपादातुं प्रयतध्वं सुबुद्धयः ॥ १०९ ॥ आसतां तानि भूयांसि तस्मादेकमपि ध्रुवम् । आत्तं तद्विधिनाऽऽराद्धं विधत्ते विविधाः श्रियः ॥ ११० ॥ रत्नसारकुमारस्य वृत्तमन्त्र निशम्यताम् । इहैव भरतक्षेत्रे पुरं रत्नपुराह्वयम् ॥ १११ ॥ तस्य रत्नमयैश्चैत्यैर्नररलैश्च
पञ्चमः प्रकाशः ।
॥ ७७ ॥