SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सर्वतः। शोभितस्याभिधा पृथ्व्यां यथार्था पप्रथेतमाम् ॥ ११२॥ तत्र रत्नाङ्गदो राजा बहिरङ्गान्तरङ्गयोः । निग्रहानु ग्रही दुष्टशिष्टयोरतनिष्ट यः॥ ११३ ॥ तस्य रत्नप्रभा पत्नी न रत्नाभरणैः परम् । भूषयामास यात्मानमप्रत्नैरपि सद्गुणैः ४॥ ११४ ॥ तयोस्त्रिवर्गसंसर्गसुभगंभावुकात्मनोः । शर्मकिर्मीरिता जग्मुर्वासरा इव वत्सराः॥ ११५ ॥ अन्यदा वन्यदावांशुरत्नौघस्वमसूचितम् । सा बभार शुभं गर्भ रत्नं रोहणभूरिव ॥ ११६ ॥ नवमास्यामतीतायां सुषुवे सा शुभे क्षणे। सुतं प्राचीव भास्वन्तं भासयन्तं धुता दिशः॥११७ ॥ प्रियंवदा नृपं दासी प्रमोदादित्यवर्धयत् । देव ! देवकुमाराणां प्रतिरूपमिवागतम् ॥ ११८ ॥ रत्नप्रभामहादेवी पुत्ररत्नमसूयत । भूपोऽप्यभूत्तदाकर्ण्य प्रमोदभरमेदुरः॥ ११९॥ युग्मम् ॥ सारतत्तदलङ्कारदुकूलादि यथेप्सितम् । वितीर्य स व्यधादासीमदासीमिव तां श्रिया ॥ १२० ॥ ततः प्रातरमर्त्यानामपि विस्मापकं नृपः । हर्षाजनुर्महं सूनोरनूनं समपीपदत् ॥ १२१ ॥ निवृत्ते सूतिकृत्येऽथ संमान्य स्वजनान्नृपः । स्वमानुसार तस्तस्य रत्नसाराभिधां व्यधात् ॥ १२२ ॥ पाल्यमानः स धात्रीभिः पात्रीभिः प्रेमपाथसाम् । क्रमेण ववृधे सार्द्ध पित्रो&स्तैस्तैमनोरथैः ॥ १२३ ॥ तस्मिंश्चाष्टाब्ददेशीये दध्यतुः पितराविति । गुणरत्नखनीविद्याः कुमारोऽध्याप्यतेऽधुना ॥१२४॥ न राजते विना विद्यां भूषितोऽपि विभूषणैः । प्रसून सौरभन्यूनं सद्वर्णमपि भाति किम् ॥ १२५ ॥ कुलं नालङ्करिष्णुः स्यात् कलाभ्यासं विना पुमान् । किमलङ्कारतां स्वर्णमुपैत्यपरिकर्मितम् ॥ १२६ ॥ विद्या हि रूपमसमं मनुजस्य विद्या गुप्तं धनं परमदैवतमेव विद्या । सर्वत्र गौरवमहो! वितनोति विद्या विद्यां विना तु पुरुषः पशुरेव नूनम् ॥ १२७॥ पुष्यार्के शुक्लपञ्चम्यां ततो मार्गामतिष्ठिपत् । नृपः पाठयितुं पुत्रमुपश्रीकण्ठपाठकम् ॥ १२८ ॥ सद्योऽप्यध्यापयामास
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy