________________
ॐॐSSSSSS
का कृतं मम । स्त्रीणां पतिषियुक्तानां मरणं शरणं खलु ॥ ९२ ॥ध्यात्वेति मर्तुकामा सा स्मृत्वा पञ्चनमस्कृतिम् । पादपे यावदात्मानमुद्बद्धमुदयच्छत ॥ ९३ ॥ तावत्तत्रागमत् कोऽपि काष्ठाद्यार्थितया सुधीः । तस्या बन्धुरिव श्राद्धः प्रणन्नः पुण्यकर्मणा ॥९४॥ तथास्थितां च तां दृष्ट्वा दयालुर्वदति स्म सः। भद्रे ! किमिदमारब्धं किं दुःखं वद काऽसि ॥१५॥ इत्यस्य सोदरस्येव प्रीणिता वचनामृतैः। निजं पतिवियोगादिवृत्तं सत्यमुवाद सा ॥ ९६॥ अभ्यधत्त पुनः श्राद्धः शुद्धधर्मपथस्पृशाम् । विनाशनं परस्येव स्वस्यापि नहि युज्यते ॥ ९७॥ न च स्वदेहघातेन क्षयो दुःखस्य जायते । किन्तु दुष्कर्मनाशेन तस्य तन्मूलता यतः॥९८ ॥ दुष्कर्माणि पुनर्नानाभवोपजनितान्यपि । धर्मेण ध्वंसमायान्ति तमांसीव विवस्वता ॥ ९९ ॥ ततो निर्माहि निर्मायं धर्म शर्मैककारणम् । सौदर्या इव साहाय्यं तव कर्ताऽस्मि तद्विधौ ॥१०॥ | साऽप्युवाच सखे ! सत्यमवादीः किन्तु मादृशाम् । धर्मः सम्यग् दुराराधः प्राप्तानामीहशी दशाम् ॥ १०१॥ सोऽप्यवादीन ते युक्ता तथाऽपि सहसा मृतिः। जीवन्नपि भवेजातु यतस्ते जीवितेश्वरः ॥१०२॥ तदाकर्णय मे वाक्यं संपादय पुनस्तथा । अत्रास्ते कुसुमपुरं संपदा स्वःपुरोपमम् ॥१०३ ॥ तत्रास्ति बहिरुद्याने श्रीमदाद्यजिनेशितुः । प्रासादः |स्वर्विमानश्रीविमानीकारिचारिमा ॥ १०४॥ भृङ्गायितं प्रपन्नायाः श्रीनाभेयपदाम्बुजे । अस्ति चक्रेश्वरीदेव्या भवनं तस्य & सन्निधौ ॥ १०५॥ जन्तूनां व्यसनार्तानां नानाकामितदानतः । प्रियमेलकतीर्थ यत्पप्रथे पृथिवीतले ॥१०६ ॥ तत्रागत्य
युगादीशपर्युपास्तिपरायणा । पुरश्चक्रेश्वरीदेव्यास्तपस्तप्यस्व दुस्तपम् ॥ १०७॥ मेलयिष्यति ते कान्तं स जीवन् कापि चेद्भवेत् । वक्ष्यतेऽस्य प्रवृत्तिं वा तपसा सा प्रसेदुषी ॥ १०८॥ एवं विलम्बमानाया मिलेद्यदि तव प्रियः । तदा तेन