________________
विरहदःस्थिता ॥ २२८ ॥ निकृत्या नाविकैः सोऽपि जलान्तस्तं व्यलोकयत् । न पुनः क्वापि स प्रापि यतो दरेस पातितः॥२२९॥ अथाशु चालयामास पोतवाहैः स वाहनम् । स तीरे सरितां पत्युः प्राप्तः स्यादिति तांब्रुवन् ॥२३॥ तस्याः प्रीणयितुं चित्तं प्रीत्यालापादिकान् व्यधात् । नानोपायान् स मायावी पूर्वसंस्तवकैतवात् ॥ २३१॥ अन्यदा तद्वियोगेन विलपन्तीं मुहुर्मुहुः । जजल्प लुप्तलजस्तामेकान्ते सचिवब्रुवः ॥ २३२ ॥ देवि! किं शोकमस्तोकं विदधासि मुधाऽधुना । ये गतास्ते गता एव वलन्ते न पुनः क्वचित् ॥ २३३ ॥ तदिदानी निदेशं मे देवि ! देहि प्रसेदुषी । विदांकुरु त्वदादेशवशंवदममुं जनम् ॥ २३४ ॥ प्रभूतं वित्तमायत्तं रक्तोऽहं ते नवं वयः। ततः समाधिमाधाय विधेहि वचनं मम ॥ २३५ ॥ इति मन्त्रिवचः शीललुण्टाकं कर्णयोः कटु । कालकूटमिवापीय भृशं संतापमाप सा ॥ २३६ ॥ दध्यौ च स्वधिया नूनमनेनैव दुरात्मना। चिक्षिपे क्वापि मे प्रेयान् पयोराशौ कदाशया ॥२३७ ॥ अत एव परीवारः सकलः कुटिलात्मना । प्रागेव स्ववशीचक्रे दानमानादिनाऽमुना ॥ २३८ ॥ तदेवमसहायाया अबलाया ममाधुना । स्वशीलपालनोपायं मृत्युमेव विभावये ॥ २३९ ॥ परं मां मानसोल्लासवामाङ्गस्पन्दनादयः। ज्ञापयन्ति प्रियप्राप्तिमासन्नां ज्ञानिनो यथा ॥ २४०॥ तत्किं मिलेदपि क्वापि जीवन्मे जीवितेश्वरः । विचित्रता विपाकस्य यतः प्राक्तनकर्मणाम् ॥ २४१ ॥ अतः पालयितुं शीलं सचिवं वश्चयेऽधुना । चक्रे दारुणि यद्वेधो वक्र एव वितीर्यते ॥ २४२॥ यदि तीरे पतिः प्राप्तः स एव शरणं तदा । तदप्राप्तौ पुनर्मृत्युः स्वहस्तगत एव मे ॥ २४३ ॥ एवं विचिन्त्य कृत्यज्ञा विहस्य तमुवाच सा । वरं व्यधा यदात्मीयमभिप्रायमजिज्ञपः ॥ २४४॥ ममाप्यभीष्टमेवेदं रहितायास्तदाशया। इदं वक्तुं पुनर्मन्दा मन्दाक्षवशतोऽभवम्