________________
दानप्रदीपे ॥४५॥
द्वितीयः प्रकाशः।
तस्योपदेशमिति भव्यजना निशम्य सम्यक् प्रबुद्धमनसः सुविशुद्धलेश्याः। ज्ञानं निषेव्य विधिना बहवः क्रमेण मुक्ति लाययुर्मुनिवरस्तु भवे स तस्मिन् ॥ ८६२॥ ज्ञानस्य दानादिति दुःखराशेरसौ स्वमन्यांश्च समुद्दधार । जज्ञे चिरस्थायि च
तत्समेषां दानेषु तद्दानमतः प्रधानम् ॥ ८६३ ॥ श्रुत्वा पवित्रधनमित्रचरित्रमेवं श्रीज्ञानदानफलवर्णनयाऽभिरामम् । तद्दातुमुद्यमममन्दतया विधत्त भव्याः ! यथाशु वृणते शिवसंपदो वः॥८६४ ॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे ज्ञानदानफलप्रकाशनो
द्वितीयः प्रकाशः॥ ग्रन्थाग्रम् ॥ ८७३ अक्षर २१॥ श्रीरस्तु ॥
SEISOSASSASAS
॥४५॥