________________
दानप्रदीपे
द्वादशः प्रकाशा
॥१९॥
नां पुण्यलावण्यां धन्यमन्यां तदाप्तितः । तारुण्ये परिणिन्येऽयं कन्यां पितृनिदेशतः ॥९॥ परं स साधुसंसर्गी तथा भोगेष्वरक्त न । यथासङ्गं परीणामः प्रायेण जलजीवयोः॥१०॥ ततस्तं खिड्गगोष्ठीषु श्रेष्ठी तद्भोगकौतुकी। न्ययुत पितरस्तत्त्वहिताः प्रायो हि दुर्लभाः॥ ११॥ अथ ताहग सुहृद्वर्गसंसर्गेण निरर्गलः । यथाकाममयं कामं चकमे पण्यकामिनीः ॥ १२॥ अन्यदाऽनङ्गसेनायां ख्यातायां पण्ययोषिति । अन्वरज्यत्तमामेष मालत्यामिव षट्पदः॥१३॥ तयाऽपि स तथाऽवर्जि स्नानमानाशनादिना । यथा जातु पितुर्मातुर्न सस्मार स्मरातुरः॥१४॥ कोटिशः कुट्टिनी कूटपादावरुदच्यत । रसातलस्थमप्यस्य धनं जीवनमन्वहम् ॥ १५॥ स्नेहात्तस्य पिताप्यर्थ यथाकामीनमन्वहम् । पूरयामास दासीभिरहो ! मोहान्धता नृणाम् ॥ १६ ॥ तस्यैवं द्वादशाब्दानि दिनानीवातिचक्रमुः। कालः स्यादतिजङ्घालस्तन्वङ्गीसङ्गर-17 ङ्गिणाम् ॥ १७ ॥ अक्षोदिष्ठापि तल्लक्ष्मीश्चिक्षिये चिरसंचिता । दुःखितौ पितरौ चास्य देवभूयमुपेयतुः॥१८॥ तथाऽपि कुट्टिनी क्रूरा पूर्ववद्रविणाशया। प्रेषयामास सा चेटी चाटूक्तिषु पटीयसीम् ॥ १९॥ वेगादगादगारं सा कृतपुण्यस्य पातुकम् । भ्रश्यद्भित्तिप्रतोल्यादि व्याख्यातविभवक्षयम् ॥ २०॥ प्राणेशमङ्गलाशंसुस्थूलकौसुम्भवाससम् । साऽपश्यत् प्रेयसीं तस्य तत्राभिनवयौवनाम् ॥ २१॥ दुर्दशां तादृशीं तस्य कृतपुण्यकसद्मनः। विलोक्य स्वस्थतां चास्या भृशं दासी विसिष्मिये ॥ २२ ॥ ऊचे च तां त्वदीशेन प्रहिताऽस्मि तवान्तिकम् । विज्ञातुं कुशलोदन्तमानेतुं च धनं सखि !॥२३॥ आचचक्ष चकोराक्षी साऽपि स्मेरमुखाम्बुजा। प्रियादेशश्रुतिप्रोद्यत्प्रमोदपुलकाङ्करा ॥ २४ ॥ तस्याज्ञा सखि ! कान्तस्य मस्तके मुकुटो मम । क्षमं पुनः किमाचक्षे विपक्षे खलु कर्मणि ॥ २५ ॥ तादृक् स वत्सलस्तातः श्वश्रूः साऽपि प्रियंवदा।
॥१९॥