SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १३८ ॥ मुपार्जिजत् ॥१२॥ साहाय्येन वयस्याश्च प्रशस्यां शिश्रियः श्रियम् । वणिक् च तद्भवे सिद्धो दत्त्वा चन्दनकम्बले ॥ १३ ॥ युग्मम् ॥ निरामयीकृतः साधुर्यं यं धर्म समाचरेत् । लभते तस्य तस्यांशं तदुल्लाघयिता ध्रुवम् ॥ १४ ॥ यतिभ्यो भेषजं यच्छंलभते संपदोऽद्भुताः । अखण्डिता अखण्डेन भावेनान्येन चान्यथा ॥ १५ ॥ अत्रार्थे विविधाश्चर्यसंबन्धैर्वन्धुरा कथा । श्रूयतां धनदेवस्य धनदत्ताग्रजन्मनः ॥ १६ ॥ तथाहि अस्तीह सिंहलद्वीपः पदमद्भुत संपदाम् । यो नाक इव संक्रान्तस्तर्क्यते सागरार्णसि ॥ १७ ॥ तत्राराजत शौर्येण नृसिंहः सिंहलेश्वरः । शुत्रून् यस्त्रासयामास दुर्धरान् सिन्धुरानिव ॥ १८ ॥ तस्य सिंहलदेवीति विदिता दयिता बभौ । कमलेव मुकुन्दस्य पौलोमीव दिवस्पतेः ॥ १९ ॥ तस्यां सिंहलसिंहाख्यं सूनुमन्यूनतेजसम् । अजीजनत् स पद्मायां प्रद्युम्नमिव माधवः ॥ २० ॥ बालेन्दुरिव भेजेऽसौ लीलया सकलाः कलाः । परं पुपोष नो दोषानुषङ्गलवमप्यहो ! ॥ २१ ॥ उल्लासयामास वयो द्वितीयं तदीयरूपं सवितेव पद्मम् । यत्रानुवेलं नयनालिमाला विलालसीति स्म विलासिनीनाम् ॥ २२ ॥ वक्षस्तस्य विशालतां प्रतिभया स्कन्धद्वयी स्थूलतां कीर्त्या लोचनयामलं गुरुगिरा कर्णान्तविश्रान्तताम् । रागं पौरजनेन पाणियुगलं बाहुद्वयं पीनतां माहात्म्येन पराक्रमेण च समं श्मश्रूद्गमं शिश्रियः ॥ २३ ॥ सौभाग्यसौरभ्यभरोपहूता नेके कुमाराः सुहृदीभवन्तः । समानरूपाः परिवत्रिरे तं प्रमोदतः पद्ममिव द्विरेफाः ॥ २४ ॥ कुमारः सपरीवारः स वसन्तसमागमे । रन्तुमुद्यानमन्येद्युर्जयन्त इव जग्मिवान् ॥ २५ ॥ वसन्तस्यावतीर्णस्य मिलनार्थमुपेयिवान् । रराज राजसूरन्तर्वणं स्मर इव स्वयम् ॥ २६ ॥ वागुरां दृकुरङ्गाणां स पश्यन् विपिनश्रियम् । शुश्रावार्तस्वरं दूरं निकुञ्जान्तः नवमः प्रकाशः । ॥ १३८ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy