SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 5ARA प्रसत्वरम् ॥ २७ ॥ दधाव तमनुध्वानं सहसैव स धैर्यवान् । महान्तो हि परमाणपरित्राणपरायणाः ॥२८॥ तत्र मत्तद्विपेन्द्रेण धावमानेन पृष्ठतः। उद्दण्डशुण्डदण्डेन यमेनेव जिघांसिताम् ॥२९॥ क्वासि मातःकतातासि क च त्वं कुलदेवते । दुःखे कथममूदृक्षे दूरे यूयं बभूव मे॥३०॥ वीक्ष्य तां वीरकोटीरः कोऽपि काननदेवते !। विकटात्सङ्कटादस्माद्यो मां बन्धुरिवोद्धरेत् ॥ ३१॥ रक्ष रक्ष जगच्चक्षुरनेन वनदन्तिना । यमवेश्मनि नीयेऽहं जगत्साक्षी यतो भवान् ॥३२॥ इत्यादि गद्गदालापैर्विलापैः श्वापदानपि । रोदयन्तीं गलद्वाष्पपूरप्लुतविलोचनाम् ॥ ३३॥ वित्रस्नुमिव सारङ्गी दिक्षु |विक्षिप्तचक्षुषम् । कन्यां काश्चन नश्यन्ती कान्दिशीकां ददर्श सः॥ ३४ ॥ पद्भिः कुलकम् ॥ तथाऽवस्थां च तां दृष्ट्वा दयालुायति स्म सः। ही दुःस्थेयमवस्थाऽस्याः कथङ्कारमुपस्थिता ॥ ३५॥ जीजनज्जननी तं मा मुधा यौवननाशिनम् । परस्य विपदं दृष्ट्वा यञ्चेतो न कृपायते ॥ ३६॥ यथाशक्ति समुद्धर्तुमुचितो हि महात्मनाम् । सर्वोऽपि विपदम्भोधेर-1 बलो तु किमुच्यते ॥ ३७॥ एवं विचिन्त्य पद्माक्षि ! मा भैषी रक्षिताऽस्मि ते । दीक्षिते मयि रक्षायां नान्तकादपि ते भयम् ॥ ३८॥ मतङ्गजममुं मत्तं निरस्ये पश्य लीलया । इति वाक्यामृतैः पूर्वमयं तामुदजीवयत् ॥३९॥ युग्मम् ॥ स क्षणं खेलयित्वाऽथ गजशिक्षाविचक्षणः । सत्यापयन्निजं नाम हस्तिनं तमतित्रसत् ॥४०॥ तस्याथ तादृशं शौर्यं दृष्ट्वा तमुदितविस्मिता । रक्षकत्वादसूनां सा स्वामिनं मन्यते स्म तम् ॥४१॥ ततः कन्यां सहाकार्य मूर्तामिव यशःश्रियम् । बन्दिस्तुतगुणग्रामः स ननाम महीपतिम् ॥४२॥ नृपस्तेनावदातेन प्रसन्नः प्रशशंस तम् । निभाल्य चाद्भुतं तस्याः सौभाग्यं हृदि विस्मितः॥४३॥ अत्रान्तरे पिता तस्यास्तस्कृत्वा हृष्टमानसः।धनमित्राभिधस्तत्र समेत्य नृपमानमत् ॥४४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy