SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ॥ अथानवमः प्रकाशः॥ युगादीशः श्रिये सोऽस्तु यतिं येन चिकित्सता । जीवानन्दभवे भावरोगाः स्वस्य चिकित्सिताः॥१॥ अथ भेषजदानाख्याभिदा धर्मार्थदानगा। षष्ठी प्रख्याप्यते सौख्यमक्षयं प्राप्यते यथा ॥२॥ देहः स्यादनगाराणां धर्मयोगेषु साधनम् । निरामयश्च तत्सिद्धौ साधीयस्तां दधात्ययम् ॥ ३॥ आमयाश्च मुनीन्द्राणामपि स्युः पूर्वकर्मणा । तदेभ्यस्तच्छिदे दद्याद्यथा विधौषधं सुधीः॥४॥ बन्धूनिव मुदा साधून यश्चिकित्सत्यतुच्छधीः। ध्रुवमुद्धरते धर्मतीर्थ स परमार्थतः॥५॥ सर्वेष्वपि ध्रुवं धर्नादानेष्वस्यैव मुख्यता। यतोऽस्य परमं प्रोचे माहात्म्यं स्वयमहता॥६॥ यदुक्तमागमे| "कहण्हं भंते ! जे गिलाणं पडिअरइ से धन्ने उआहु जे तुम दंसणेणं पडिवजइ?, गोअमा ! जे गिलाणं पडिअरइ से मे दसणेणं पडिवजइ, जे मे दसणेणं पडिवजह से गिलाणं पडिअरइ, आणासरणसारं खु अरिहंताणं दसणं । तेणडेणं गोअमा! एवं वुच्चइ जे गिलाणं पडिअरइ से मे दंसणेणं पडिवज्जइ ॥” इति ॥ | स्वच्छाशयेन तुच्छापि चिकित्साविहिता यतेः। तिरश्चामपि साश्चर्या दत्ते सद्योऽपि संपदम् ॥ ७॥ द्वारिकायां पुरा प्राप्तवैद्यवैतरणीभवः । वसन् विन्ध्याचलाटव्यां यूथाधिपतिवानरः॥८॥ मुनिं कण्टकविद्धांत्रिं दृष्ट्वा जातिस्मृति भजन् । विशल्यया च निःशल्यं भक्त्या कृत्वा शुभाशयः॥९॥प्रपाल्यानशनं सम्यगहो ! मुनिचिकित्सया। विपद्याष्टादशाब्दयायुः सहस्रारे सुरोऽजनि ॥१०॥ त्रिभिर्विशेषकम् ॥ श्रमणान् नीरुजीकुर्वन् प्रासुकौषधदानतः। आत्मानं नयते धन्यः पदं नीरुजमञ्जसा ॥ ११॥ मुनेः कुष्ठचिकित्सायामाद्यो वैद्यभवे जिनः। ताहक तैलस्य दानेन तीर्थकृत्त्व
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy