________________
दानप्रदीपे
॥ १३७ ॥
कृत ॥ ८०१ ॥ कुष्ठिन् ! करोषि किं नेत्याक्रोशन् कनकमञ्जरी । किं रे पश्यसि नान्धेति भृत्यं प्राग्गुणमञ्जरी ॥ ८०२ ॥ कर्मणा तेन तेनाते तादृइयो दुर्दशे तयोः । वचसाऽपि चितं कर्म कायेनैवानुभूयते ॥ ८०३ || पात्राम्बुदानसुरपादप एष राजन्नाजम्ममानुषसुखर्द्धिपरम्पराभिः । अत्यद्भुताभिरभितस्तव पुष्पितोऽस्ति सद्यः फलिष्यति पुनः शिवसौख्यलक्ष्म्या ॥ ८०४ ॥ इत्याकर्ण्य सुधाकिरं गुरुगिरं वैराग्यभङ्गीं परामङ्गीकृत्य शुभाशुभां भवभृतां कर्मस्थितिं भावयन् । राज्ये न्यस्य निजाङ्गजं शुभदिने तैस्तैरतुच्छोत्सवैर्भार्याभिर्नवभिः समं स्वयमुपादत्त व्रतं भूपतिः ॥ ८०५ ॥ सम्यक् प्रपात्य चरणं बहुवत्सराणि तवा तपांसि निशितानि परश्शतानि । दिव्यां जगाम स गतिं सममङ्गनाभिर्गत्वा विदेहमपदेहपदं गमी च ॥ ८०६ ॥ इत्थं तथ्यविचारचारुचरितं श्रीरत्नपालाभिधक्ष्माभर्तुर्यतिपानदान सुकृतस्फीतं निशम्याद्भुतम् । भो भव्याः ! सततं विधत्त विधिना तत्र प्रयत्नं यथा सद्योऽप्युत्सुकतां भजन्ति वरितुं युष्मानशेषाः श्रियः ॥ ८०७ ॥
॥ इति श्रीतपागच्छनायक श्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दर सूरिपट्टालङ्करणश्री सोमसुन्दर सूरिशिष्य श्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्र पानदानफलप्रकाशनोऽष्टमः प्रकाशः ॥ ग्रं० ॥ ८४६ ॥
अष्टमः
प्रकाशः ।
॥१३७॥