SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ परिणामादवाप्यते ॥ ७८६ ॥ यदुक्तमागमे . "सम्मत्तम्मी लद्धे पलियपहुत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखंतरा हुंति ॥१॥" आनन्दकामदेवाद्या इव केचिदुपासकाः। अमुं धर्म समाराध्य भवन्त्येकावतारिणः॥ ७८७ ॥ उत्कर्षतः पुनर्देशविरतिप्रतिपालकाः । पिष्टदुष्टाष्टकर्माणः सिद्ध्यन्त्यन्तर्भवाष्टकम् ॥ ७८८ ॥ भेदाः कोटीशतान्यस्मिन्नधिकानि त्रयोदश । अतः सम्यक्त्वमूलोऽयं सुखसेव्यो विवेकिभिः॥ ७८९ ॥ इत्याकर्ण्य नृपः श्राद्धधर्म तस्मादुपाददे । निजशत्तयनुरूपं हि प्रपद्यन्ते विपश्चितः ॥ ७९० ॥ प्रपेदिरे नवाप्यस्य दयिता अपि तं मुदा । सा किं पत्नी न या पत्युः सद्धत्तमनुवर्तते |॥ ७९१ ॥ मुनीन् नत्वाऽवनीन्द्रोऽथ निजमावासमासदत् । मुनयोऽपि क्रमेणामी जग्मुः स्वगुरुसंनिधिम् ॥ ७९२॥ |धर्ममाराधयामास विशुद्धं वसुधाधवः । न ह्युत्तमाः प्रमाद्यन्ति स्वीकृतव्रतपालने ॥७९३॥ ततोऽयं नृपतिर्मृत्वा जातस्त्वं जगतीपते । श्राद्धधर्मप्रसादेन राज्यसंपदमासदः॥ ७९४ ॥ नान्दीमिताम्बुदानेन रसमेवं च लेभिषे । पात्रे स्वल्पमपि प्रत्तं महत्यै संपदे यतः॥७९५॥ तापसव्रतमाचर्य सिद्धदत्तस्तु तेऽजनि । जयो मन्त्री यदज्ञानतपसः फलमीदृशम् ॥७९६॥ द्वादशाहं यदस्थापि पोतस्तस्य त्वया पुरा । तावदब्दी ततस्तेन राज्यं ते गृह्यताधुना ॥ ७९७ ॥ श्रीदेवीप्रमुखाः कान्ताः प्राक्तन्यस्ते नवापि ताः। शृङ्गारसुन्दरीमुख्या जाताः संप्रत्यपि प्रियाः॥ ७९८॥ शृङ्गारसुन्दरीजीवः कायोत्सर्गस्थितं यतिम् । दशशत्या भवेभ्यः प्राग् रजःपूरैरुपाद्रवत् ॥७९९॥ वेदनाः कर्मणा तेन दुःसहाः सहते स्म सा । नामुक्त क्षीयते कल्पकोटीभिरपि कर्म यत् ॥ ८००॥ धनदत्तः पुनर्जज्ञे स वैदेशिक आस्तिकः । चिकित्सितः सुरीभूय भूयस्त्वां य उपा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy