________________
दानप्रदीपे
अष्टम: प्रकाश
॥१३६॥
RSS RESENCES
प्रेक्ष्य रङ्गादभिजगाम च । ननाम च निजावासे बह्वागृह्याजुहाव च ॥ ७६९ ॥ न्यमन्त्रयत भक्त्याऽथ भोज्यैः प्राज्यैर्मुनीन् नृपः । भावाच्छेनाप्यनच्छेन तान्दुलेनोदकेन च ॥ ७७० ॥ तेऽपि तत्प्रासुकं मत्वा नान्दीपात्रममण्डयन् । भूपोऽ- प्यपूपुरत्तेन स्वात्मानं सुकृतैः पुनः ॥ ७७१॥श्रीदेवीप्रमुखास्तस्य देव्योऽपि नव सादरम् । ददिरे प्रासुकं भक्तपानं तेभ्यः शुभाशयाः॥ ७७२ ॥ तेन ते स्वस्थतां प्राप्ता यतयो मुक्तिहेतुषु । नानासंयमयोगेषु बभूवुः प्रभविष्णवः ॥ ७७३ ॥ अप-5 राहे च भूनाथः सान्तः पुरपरिच्छदः । भक्त्या येतीन् यथाज्येष्ठमवन्दिष्ट विशिष्टया ॥ ७७४ ॥ तेऽपि धर्माशिषा पाप-18 प्लुषा तं पर्यतूतुषन् । अथोपादिष्टवान् ज्येष्ठः पुण्यमार्ग नृपाग्रतः ॥ ७७५ ॥ जीवाः सर्वेऽभिलष्यन्ति सुखं दुःखं द्विषन्ति । च । तयोश्चैकान्तसद्भावासद्भावावपुनर्भवे ॥ ७७६ ॥ तस्य मार्गावुभौ सम्यग् दर्शिती सर्वदर्शिभिः। यतिधर्मस्तयोराद्यः सर्वसावधवर्जितः ॥७७७॥ अस्मिन्नुपस्थितैः सम्यक् प्राणिभिः परमं पदम् । अन्तर्मुहूर्तमात्रेण मरुदेव्येव लभ्यते ॥७७८॥ परं पूर्वमहाधीरोद्धृता पञ्चमहाव्रती । मेरुपश्चतयीवात्र कातरै रतिदुर्धरा ॥ ७७९ ॥ अष्टादशसहस्राणां शीलाङ्गानां भरं नरः। धराभारमिव प्रौढं वोढुं कः प्रौढिमावहेत् ॥ ७८०॥ उपसर्गास्तथा दुर्गा दिव्यतैरिश्चमानुषाः । द्वाविंशतिर्बुभुक्षाद्या दुस्सहाश्च परीषहाः॥ ७८१ ॥ जगज्जयपटीयांसौ रागद्वेषमहाभटौ । अजय्यौ चक्रिशकायैविजेतुं कः प्रगल्भते ॥७८२॥ अत एव महाधीराः स्वदेहेऽप्यनपेक्षिणः । पथा प्रस्थातुमेतेन प्रगल्भन्ते दृढव्रताः ७८३ ॥ द्वितीयः श्राद्धधर्मस्तु देशसावद्यवर्जितः। प्राप्नोत्येनमपि प्राणी निकामं कर्मलाघवे ॥ ७८४ ॥ सागराणां स्थितौ कोटिकोव्यन्तः सप्तकर्मणाम् । विहितायामवाप्येत सम्यक्त्वं भव्यजन्तुभिः ॥ ७८५॥ पल्योपमपृथक्त्वे च ततोऽपि क्षयमापिते । देशतो विरतिः शुद्ध
॥१३६॥