________________
साधुरप्यभ्यधाद्भद्र! त्वमुन्निद्रमनाः शृणु ॥४४॥ अहं ते प्राविशं वेश्म त्वं घृतं दातुमुद्यतः । भावं च वीक्ष्य ते शुद्धवर्धमानं विसिध्मिये ॥४५॥ श्रुतेनाहमुपायुक्षि दिव्यायुस्त्वयि बन्नति । सौधर्मादिषु कल्पेषु गन्तुं च प्रावृतद्भवान् ॥ ४६॥ वर्धमानशुभध्यानात्प्राप्तस्त्वं यावदच्युतम् । घृतेऽनवहितश्चासं त्वदायुर्बन्धबद्धधीः॥४७॥ प्रपपात घृतं पात्रान्मयि चानुपयोगिनि । तदा च त्वं निरैक्षिष्ठाः प्रपतन्नच्युतान्मया ॥४८॥ अहं ततश्च मापप्त इति त्वां प्रत्यभापिपि । क्लिष्टाशयश्च निःशेष दिव्यायुरुदवीवलः ॥४९॥ यदा पुनस्त्वमुल्लुण्ठमभाषिष्ठाः प्रदुष्टधीः । तदोदलितसम्यक्त्वस्तियंगायुर्बबन्धिथ ॥५०॥ ततो मयोच्यथा दग्धोपर्ययं स्फोटकस्तव । यत्त्वयाऽनाशि देवायुस्तिर्यगायुरवन्धि च ॥५१॥ इत्थं यथास्थमेवार्थमचीकथमहं तव । न तु द्वेषसमुन्मेषः कोऽपि मे हृदि वर्तते ॥५२॥ इत्याकर्ण्य स निर्विण्णः सानुतापमवोचत । प्रसीद भगवन् ! भूयो धरस्व घृतभाजनम् ॥ ५३ ॥ घृतदानात्पुनर्येन दिव्यायुर्बन्धमादधे । सोऽप्याह घृतदानेन सुरायुर्नहि बध्यते ॥ ५४॥ विशुद्धाध्यवसायो हि सुरायुर्बन्धकारणम् । अयं पुनर्विनाशंसां सुपात्रे ददतां भवेत् ॥ ५५ ॥ आशंसया भवेदातुः क्रयविक्रयिकस्थितिः । अतो दानमनाशंसं प्रशंसन्ति मनस्विनः ॥५६॥ इत्युक्त्वा मुनिरन्यत्र विजहार यथागमम् । यक्षः पुनः सवैलक्ष्यः स्वमनिन्ददनिन्द्यधीः॥ ५७॥ दानधर्ममनाशंसमथाराध्य यथाविधि। जगाम सुगतिं यक्षः पदमप्यक्षयं क्रमात् ॥ ५८॥ द्वैधा शंसां विना पात्रदानतः कोऽप्युदारधीः । इहापि विन्दते कीर्ति|संपदाद्यं यथा धनः ॥ ५९॥ तथाहि
श्रियां विश्रामभूमः सुसीम इति विश्रुतः। तस्मिन् जगन्मनोहारी व्यवहारी धनाह्वयः॥६०॥ औदार्य विनयो
दा०३१