SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे पञ्चमः प्रकाश ॥७५ ॥ सुतं विना ॥ ३३ ॥ ऋते पुत्रं च निश्चिन्तं निर्मिती धर्मकर्मणाम् । मनोरथोऽवकेशीव भविता मे चिरन्तनः ॥ ३४ ॥ ततो मदन्वयव्योम्नि भानुमानिव भास्वरः । दुष्कर्मदोषापगमादुदेतां कथमात्मजः ॥ ३५ ॥ इति चिन्तातुरः शय्योत्थायं 8 विच्छायिताननः । स्नानपूजादिकं चक्रे प्रातःकृत्यं स सत्यगीः ॥ ३६॥ अथासननिषण्णस्य भृशं तस्य विषण्णताम् । वीक्ष्य दक्षा तमाचख्यौ सदुःखा रतिसुन्दरी ॥ ३७॥ त्वदङ्गमङ्ग! किं रोगसंगमेनाद्य पीड्यते । किं वा तवार्थनाशेन दैन्यं मानसमानशे ॥ ३८ ॥ किंवा भूपापमानेन म्लानिमोनातिगाऽस्ति ते । मयानभिज्ञया किंवा तवाज्ञा काऽप्यलुप्यत ॥ ३९ ॥ अन्या वा काऽपि ते चिन्ता संतापं तनुतेतमाम् । अजातपूर्व मालिन्यमानने तेऽधुना यतः॥४०॥ प्रसद्य कान्त ! चिन्ताया निमित्तमभिधेहि मे । सद्यः पिधेहि संदेहं समाधानं विधेहि च ॥४१॥ ततोऽभाषिष्ट तां श्रेष्ठी पूर्वपुण्यप्रभावतः। अमी रोगादयो देवि ! सन्ति संतापका न मे ॥४२॥ किन्तु प्रेयसि ! मे सूनुन्यूनता शून्यताकरी। विधत्ते चित्तसंतापं शल्यमन्तर्गतं यथा ॥ ४३ ॥ तदुक्तम् "दारियं जनकस्य नापनयते व्याधीन विध्वंसते नैकान्तेन हितो भवेदिह भवे नो सद्गुणश्चाङ्गजः। जन्तूनां गतयः पुनः परभवे भिन्नाः स्वकर्मानुगाः पुत्रार्तिस्तुदते तदप्यसुमतो ही मोहविस्फूर्जितम् ॥१॥" अथ प्रज्ञापयामास प्राज्ञा प्रणयिनी प्रियम् । स्वामिन् ! ममाप्यसौ चिन्ता न स्तोका नाल्पकालिकी ॥४४॥ पर G पुराकृतं कर्म जन्मिनां फलति स्वकम् । न कोऽपि तत्परीपाकमन्यथा कर्तुमीश्वरः॥ ४५ ॥ तदप्युपक्रमाधीना सिद्धिः सर्वत्र देहिनाम् । धर्म एव च सर्वार्थसिद्ध्यै तत्तत्र यत्यते ॥ ४६ ॥ पुत्रार्थ ननु सम्यक्त्वं मिथ्यात्वेन कदर्थ्यते । कः ॥७५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy